________________
जून - २०१३
१५७
सूरीश ! रत्नविमला बहुरूपिणी सा, जागर्ति या त्रिभुवने खलु चित्रमेतत् । शुद्धस्वरूपसहिता भवदीयकीर्तिः, सर्वत्र पर्यटति या विमला कथं सा? ॥९०॥ त्वं चेद् यदा कल्पतरुस्तदायं, चिन्तामणिश्चेत् त्वमनल्पदाता । पूषा कथं चेद् भवतः प्रतापो मुधैव सृष्टा विधिना मुनीश ! ॥९२।। प्रालेयाचलकुन्दकैरवलसत्कर्पूरपूरोपमे ब्रह्माण्डोदरभासुरः शुचितरस्त्वत्कीर्तिपूरः परः । सर्वेषां च चमत्कृतिं न कृतवान् मेधाविनां शुभ्रिमा यद् वादीन्द्रमुखैर्गुरोर्न मुमुचे विश्वे सिते श्यामता ॥९३।। मुक्तालताचन्दनकीर्तिवल्ली-स्वर्वाहिनीव्याजत एव तारम् । आरुह्य वाँ प्रसरत्यजत्रं, प्रभो ! नभोमण्डपमिद्धभासा ॥९४|| पुष्पाणि पुष्टानि भवन्ति तारा, क्षीराब्धिडिण्डीरसुहारतारा । पीयूषपूर्णोऽपि विधुः फलं तत्, संश्रूयते सर्वजने प्रसिद्धम् ॥९५।। युग्मम् ।। याते दिवं किल यशो नखरायुधेते त्रस्तार्कसोदर इवेति भिया मुनीश ! । तत्कुम्भतः पतितपेशलमौक्तिकौघै-स्तारं वियद् जगति तारकितं बभूव ॥९६।। त्वत्कीर्त्याऽतितिरस्कृता यतिपते ! स्वर्वाहिनी व्योमनि
श्रीकण्ठस्य ससाद _ _ सुजटाजूटाटवीकोटरम् । जाने शापमदत्त रुद्रशरणा तस्यै च ते कीर्तये
त्वन्नाथस्य सुचङ्गसङ्गविरहो नैकत्र वासोऽस्तु ते ॥९७।। कुन्देन्दुकैलाशतुषारहार-मुक्तासतारसुरशुक्तिकीर्तिः(?) । तिरस्कृता हंसततिस्तवे(स्त्वये)श ! जडाश्रयं मानसमाससाद ॥९८|| श्रीराजेन्द्रसभागतेन भवता वादे समारम्भिते
यत्प्राप्तं खलु येन येन भगवन्! वादेन शब्दोत्कराः । क्षुभ्यत्क्षीरसमुद्रसान्द्रलहरीतुल्यैसुशब्दैर्जय
स्तेन त्वं त्वयका[पि?] कीर्तिविसरस्तेनाऽपि विश्वत्रयम् ॥९९।। ज्योत्स्नौघः किमु चान्द्रकः ? किमथवा कैलाशशैलाधिपः ?
पिण्ड: सारसुधारसस्य विमलः ? कर्पूरपूरोऽथवा ? । प्रालेयाचलतारतारविलसगोदुग्धपिण्डोऽथवा
प्रेक्ष्य ! त्वद्यशसां भरः श्रुतवतामित्याशयो भासते ॥१००।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org