SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जून २०१३ ओकांसि यस्मिन् जिनशेखराणां, स्वर्लोकनिश्रेणिनिभानि भान्ति । विमानशोभां प्रभया हरन्ति किं स्यात् पुरः कृत्रिमवर्णनेन ? || ६३ || त्रिसन्ध्यमार्या विधिवन्दनादि, गुरोर्वितन्वन्ति हि नागरौघाः । दानेन युक्ता निरता: स्वधर्मे यत्र प्रभाते प्रकटप्रभावाः ॥६४॥ मं यत्र शोभां मुनयो हरन्ति धनीश्वरा वैश्रमणस्य शोभाम् । हरेः क्षितीशा यदि चोरयन्ति, न्यायैकगेहे च तथाऽपि यत्र ( ? ) ॥६५॥ देवे - गुरौ च प्रतिबद्धरागा: (गा) न्यायेन सम्पन्नधनाश्च चङ्गाः । वसन्त्यनेके वसुधाप्रधानाः श्रद्धालवः स्वार्जितभूरिमानाः ॥६६॥ विराजते श्राद्धततिर्विशुद्ध - मुक्तावदाता ग्रहमण्डलीव । सदानभोगा भुवने प्रसिद्धाः सदा प्रबुद्धा गुरुणा सनाथाः ॥६७॥ श्रद्धालवः सन्ति समस्तशस्त - गुणैर्गरिष्ठाः स्वकुलप्रतिष्ठाः । क्रुधा लघिष्ठाश्च वृषेण पुष्टा दौस्थ्ये दविष्ठा भुवने विशिष्टाः ॥६८॥ उदारनेपथ्यधराः सदाना-स्तपस्क्रियावश्यकसावधानाः । कृतोपयामाः सुखिनः स्वशील - कुलोपमैर्यत्र सहाऽन्यगोत्रे ॥ ६९ ॥ इत्यादिभिः श्राद्धगुणैर्विशुद्धाः श्रद्धालवो यत्र वसन्त्यनेके । पूज्यागमैः शोषितसर्वदौस्थ्ये, स्वीयस्थितेः सूचितसर्वसौस्थ्ये ॥७०॥ विश्वाद्भुतस्थावरजङ्गमश्री तीर्थद्वयावाप्तजये प्रसिद्धे । पुरे वरे श्रीमति तत्र तातैः पवित्रिते रेणुभिरंहिलग्नैः ॥७१॥ विश्वत्रये सकलराजसमाजसांई - दासाभिधो वसुमतीयुवती - Jain Educationa International , १५५ शः । यत्र प्रशास्ति सकलाः सकलाः स्वकीय-प्राज्यप्रजा: प्रतिदिनं प्रबलप्रतापः ॥७२॥ प्रौढप्रतापसदनं कदनं रिपूणां ज्ञाता स्वधर्मनिरतो विदितो जनेऽस्मिन् । कर्पूरपूरकलधौततुषारहार- कैलासशैलशशिकुन्दयशः प्रसारः ॥ ७३ ॥ वापी - प्रपा-कूप-तटाकराजी विराजते यत्र पयः प्रपूर्णा । वयोविलासोचित भूमिदेशा स्निग्धद्रुमैः शोभितसर्वपाश्र्व ॥ ७४ ॥ उत्तुङ्गशृङ्गचङ्ग-वृषभजिनोद्यद्विहारचारुतरात् । वसहीपुरात् तस्ताऽसौ (?) योजितकरकुड्मलो मु (मूर्ध्ना ॥७५॥ श्रीतातपादपादाम्बुजसारपरागचञ्चरीकाभः । श्री भानुचन्द्रवाचकं (क) शिशुः शिशुर्बालबुद्धियुतः ॥ युग्मम् ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy