SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १५२ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (२८) श्रीतपगच्छपतिं प्रति पं.श्रीदेवविजयलिखितो विज्ञप्तिलेख: (त्रुटितः) .............. घटने देवद्रु-चिन्तामणीन् ॥२६।। अथ देशवर्णनम् - मन्दाकिनी द्वीपवतीषु वज्री, सुरेष्वशेषेषु नृपेषु चक्री । ऋक्षेषु चन्द्रो गरुडो द्विजेषु, दन्तावलेष्विन्द्रगजो गरिष्ठः ॥२७॥ नगेषु मेरुश्च हरिमंगेषु, तीर्थेषु मुख्यो विमलाद्रिरेव । रत्नेषु चूडामणिरायुधेषु, वज्रं यथा कामदुघा च गोषु ॥२८॥ सैन्येश्वरेषु प्रभुकार्तिकेयः, श्रीकल्पवृक्षो फलदेषु गेयः । श्रीगूर्जराख्यो विषयेष्वमेयो, देशावलीश्रीमुकुटोपमेयः ॥२९॥ [त्रिभिर्विशेषकम्] यावल्लोके गगनसुमणि(णी)मण्डलं सोमभान्वो र्यावद् गङ्गा सुकनकगिरिः शेषनागः सरस्वान् । यावद् विश्वे जलधितनया भारतीनां समाज स्तावज्जीयाज्जगति विदितः सर्वदेशाधिराजः ॥३०॥ नाऽऽपुः समग्राः(ग्रा) विषयाः समत्व-मन्ये दधानाः परमर्द्धियुक्ताः । त्रिवर्गलक्ष्मी: सकलैव यस्य, स्पर्द्धा सदा स्रस्तसमस्तभीतेः ॥३१॥ राज्यं कुर्वति यत्र राज्ञि मनुजाः प्रापुः परां निर्वृति मत्तेभालिसवेगतुङ्गतुरगे न्यायैकसद्धर्मणि । न प्रापुः प्रतिवीरधीरधरणीनाथातिवामध्रुवः सौख्यं क्वापि जयावहे सुविषये श्रीभासुरे गूर्जरे ॥३२॥ महान्नास्ति सदा देशे, विभेदो देव-भूस्पृशोः । उन्मेष-पादचाराभ्यां, यत्र विज्ञायते नरः ॥३३॥ उदारनेपथ्यभृतो जनौघाः क्षामेक्षुतुल्या नयकोविदाश्च ।। यस्मिन् धरेशाः सुरनाथतुल्याः, श्रियां निवेशे रुचिरप्रदेशे ॥३४|| सर्वेषु देशेषु विराजमाने, तस्मिन् गुणैः स्वैर्मुकुटायमाने । श्रीगूर्जरे या नगरीव चूडा-मणीयते वै परमर्द्धियुक्ता ॥३५।। धाः क्षामेव श्रियां निवेश कायमाने Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy