________________
१३८
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
अथ स्तुतिः
यूयं पूज्या गुणैर्योज्याः, न्याय्याः (य्या) न्यायविदां वराः । कृपादृष्टिसुधावृष्टि-रभिषेच्या ममोपरि ॥ १२ ॥ गुणरत्ननदीना ये, न दीना ये परर्द्धिषु । मिथ्यात्वाहिप्रवीना(णा) ये, प्रवीणा ये समश्रुतौ ॥१३॥ ते यूयं कस्य नुर्वन्द्या, नो वन्द्या नो विधानतः । अनवद्यानिन्द्यसौन्दर्य-वर्यगाम्भीर्यभाजनाः ॥१४॥ युष्मज्जलजशब्देन, भक्त्युत्कण्ठाधरा नरः । प्रत्यहं पूज्यवक्त्राब्ज-दर्शनेन च किं पुन: ? ॥ १५॥ युष्मत्स्पर्द्धकरा ये, युष्मत्सभ्याश्च येऽत्र सम्मान्याः । सज्जनजलजविकाशे, विबुधैरिह यूयमुच्यन्ते ॥१६॥ युष्मद्विषां च शीर्षे, पुनरपि यूयं सदोज्ज्वला यशसा । ते ते भवन्तु सकला, अकरपपूर्वं (?) वयः पूज्याः ॥१७॥ आर्याद्वयं प्रेषितमद्य मोदाद्, युष्मत्समीपे सततं सुखाय । सभ्यान् समाहूय विचार्य ह्यर्थं प्रतिच्छदे लेख्यमनुग्रहेण ॥१८॥ मदादेशस्थले पूज्यैश्चतुर्मासी यदाऽकृत । मह्यं पूज्यचतुर्मासी-स्थानं देयं नयः स च ॥१९॥ अथवाऽलं विचारेण राज्ञा यः क्रियते नयः । महोपरोक्षादारभ्य (?), मय्यैवाऽत्राऽवसर्पिणी ||२०|| अमिताक्षरसंयुक्तं, पत्रमागामि श्रीजिताम् ।
अमितानन्दमच्चित्ते, तेन भावि सुखाकरम् ॥२१॥ युष्मत्कृपादृष्टिप्रसादतो वयं, कुर्मो वचोयुक्तिविचारचातुरीम् ।
यत् कोकिलः कूजति माधुरं वच, इष्या ( ? ) भ्रमञ्जर्यनुभावतस्तत् ॥२२॥ प्रीत्यमत्रं कृपाछत्रं, विचित्रं विशदाक्षरैः ।
सत्रादपि पवित्रं च, प्रतिपत्रं प्रदीयताम् ॥२३॥
रामपक्षेभभूमान (१८२९ ) - वर्षस्य शुभकारिणः ।
नभस्यस्य च राकाया - मिति: (ति) श्रेयो दिने दिने || २४||
Jain Educationa International
॥ इति श्रेयः ॥
कैलाससागरसूरि ज्ञानमन्दिर- कोबा, नं. ५२७४३
For Personal and Private Use Only
www.jainelibrary.org