________________
१३६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(२३) जहन्नाबादस्थ-श्रीजिनसुखसूरि प्रति राजनगरतो श्रीलब्धिविजयानां विज्ञप्ति:
स्वस्ति श्रीमन्तमर्हन्तमनन्तातिशयनिलय-त्रिभुवनवलयप्राज्यसाम्राज्यलक्ष्मीपतिमधरीकृतप्रणतशतक्रतुशिरःकोटिकोटीरतटजटितलोहितमणिमयूखनखवृन्दममन्दानन्दकन्दोद्भेदननवाम्बुदमभिनन्दनमभिनम्य रम्यमनसा श्रीमज्जहन्नाबादे वादिवदमदसर्पसारि-द्रुकर्ममर्माविद्-धर्माधर्मादिषट्पदा निरूपणविदुर-प्रतिपक्षवक्षस्थलभिदुर-लोकोत्तरचारुचमत्कारकरतारयशोराशिरश्मिधवलीकृतदिगन्तसप्तभङ्गीतरङ्गिणीतरङ्गिततनु-मनुजराजराजिहृदयराजीवमधुकर-स्मरविकारहरणजितकरण-शरणैकस्थान-गुणनिधानेषु सकलजनमण्डलीश्रवणकुण्डलीकृतनामधेयेषु युगप्रधानेषु श्रीश्रीश्रीश्रीमच्छ्रीजिनसुखसूरिभट्टारकेषु सत्साधुमण्डलीमण्डितेषु श्रीमद्राजनगरतो विनयनयललाटतटघटिताञ्जलिसम्पुटानां लब्धिविजयानां पं. महिमोदयजयविशालकीर्तिविशालचिरंगांगजीप्रमुखपरिवृतानां नमस्कारपुरस्सरा विज्ञप्तिः । श्रेयोव्रततिरिह तत्रभवद्भवन्नामधेयालवाललालितकृपादृष्टिसुधावृष्टिसंसिक्ता चोत्सर्पति । तत्रत्या च प्रतिप्रत्यूषमेधमानाऽऽशास्यते । तथा चतुर्मासत्वावच्छेदकावच्छिन्नानि दिनानि जातानि, परं प्राभवप्रवृत्त्यव्युत्पत्तिविच्छित्तिकारकं प्रेमपीयूषपात्रं विचित्रप्रवृत्तिसूचकं पत्रं नोपस्थितम् । तत्र को हेतुः ? तथाऽत्र
चैत्रसुदिद्वितीयायां विशेषाशेषोदन्तमुक्ताफलमयूखा पत्री [स]मेता, गतास्सन्तापतापा हृगोचरतां गताश्च सर्वे समाचाराः । अपि मया _ _ _षा छदा उपढौकिताः, परं प्राभवं प्रत्युत[र]छन्द(छदं) नो समेतं, तस्मादद्यापिपर्यन्तं सं[दे]हदोलायामेव स्थितोऽस्म्यस्मि ॥
-x
ला. द. विद्यामन्दिर,
अमदावाद (मुनिश्रीधुरन्धरविजयजी द्वारा)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org