SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १३५ रङ्गसङ्गो विलसतीह । सर्वदानन्दकन्दसन्ततिरस्तु तत्र तत्रभवत्सु, यतिततिषु च तथैव । तथा – तत्र सुखेन तस्थुषां श्रीसङ्घस्य धर्ममार्गेऽनघे प्रवर्तयतां चानन्तरं परिहासप्रकास(श)विविधकथाकलापालापपरिशीलनचतुरशृङ्गारिजनमनोऽनिन्द्यप्रमोददानैकपटुः कामकलाकुशलसधवकामिनीयामिनीसुरतभरपरिश्रमोद्दामिनीसौत्सुक्य विहितशीलालङ्कारविभूषणसुश्लोकबिब्बोकः आस्तिकजनकृति(त)जिनपतिपूजास्नात्रश्रुतिशकुलीसिद्धान्तस्तोमश्रवणपवित्रितजन्मसौख्यास्पदः सर्वलौकिकदौर्वादिकपर्वगर्वपर्वतेषु कुलिशपात इव धर्मिणां सुखवात इवाऽऽजगाम षण्मतोपनिषण(ण्ण?)निर्दूषणधिषणाभूषणपर्युषणासर्वपर्वाधिराजः । तत्रोत्पन्नविवेकच्छेकसाधर्मिकजनकृतप्रयत्नबलाहीनेताभिधानः कृतपारणाकारणोद्यमादुद्भूतप्रभूतधर्मवर्मपरिवृतो भृशं हृष्टः सांवत्सरिकपौषधव्रतिनां खगखाक्षि(२०५)प्रमितानां चतुर्मोदकेन सघृतखण्डरसनाप्रमोदकेन पारणकमकारि । यत् पुनरन्येऽपि स्वकीया बन्धुजनाः स्वजनाश्च चक्रुर्जक्षणं तत्क्षणम् । सर्वा प्रमितिः पञ्चसत्याः(?) समजनि । भवत्पत्कमलयमलं नमो मे शिष्यवर्गस्याऽनिशमवगाहतां गाढम् । सर्वोऽपि सङ्घो नंनमीति चतुरं भवन्तमत्रत्यस्तत्रभवन्तम् । लघुसम्पादिताऽपि सुवर्णमालाखचिता शब्दालङ्कारमण्डिता मत्पत्रीपुत्री, तस्याः पाणिग्रहणं कार्यमार्यैः । तथा कृपावद्भिः भवद्भिरपि तत्रत्यपर्वाराधनस्वरूपं विज्ञाप्याशयैरिति भद्रम् ॥ ये पाथोधितटं विलम्ब्य सहसा भ्रश्यन्ति लोलोर्मयः, किं स्तव्याः श्रुतिसन्निधिं प्रतिगताः संख्यावतां सद्गुणाः । श्रीमच्छ्रीजिनसौख्यसूरिसुगुरोभिन्दन्ति नोनावलाः । __त्रैलोक्ये विदितावदातयशसः श्लाघ्यास्तके सादरम् ।। युगप्रधानभट्टारकश्रीजिनसुखसूरीन् प्रति......... -x Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy