________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क खण्ड २ दानविच्छेदः कदाचित् करिकपोले, दाक्षिण्यं दिनिश्चये न तु कुमार्गगोपने, शृङ्खलाबन्ध: काव्यग्रन्थने (ग्रन्थे / ग्रथने ) षु, उत्प्रेक्षाक्षेपः काव्यालङ्कारेषु, मारयोगोदयो यौवनोदये शारिक्रीडासु च अधररागता तरुणीगणेषु न विदग्धजनेषु, वृद्धमपि यत् सुन्दरीपरिवृतोपकण्ठे भर्भरीभासुरं श्रीजालौरनगरम् ।
तत्र स्थितेषु अनवरताभ्यस्तसाहित्यविद्याप्रबोधोद्भूतप्रभूतनव्यभव्य
१३४
काव्यकलाप्रावीण्यसम्यग्विज्ञातच्छन्दोऽलङ्कारनाटकशाटकादिविविधप्रबन्ध
खण्डपाण्डित्यव्यपगतसन्देहससन्दोहनिरवद्यगद्यगोदावरीप्रवाहवावदूकाखर्वगर्वगरिमास्तम्भेषु उदयाचलकूटकोटिप्ररूढागूढजपाकुसुमकान्तिदिनकरकरनिकरप्रतिमाभ्युदयप्रतापप्रसाधितप्रचण्डानेकसामन्त भूपालभूपपतिसततप्रणतपादारविन्देषु व्यक्तमुक्ताफलस्तोमनिर्मलकीर्तिप्रसरपूरितदिगन्तरेषु अगण्यधन्यपुण्योद्भूतलावण्य
स्वकपोलानल्पकल्पनातर्जितत्रिदशाचार्यवर्यचातुर्येषु गाम्भीर्यादिगुणग्राममण्डिताऽ
-
चातुर्यकलितसुधामधुरवचनसम्बुद्धप्रबुद्धमुनिमण्डलीसम्पादितनिस्सीममहिमप्रभूत
प्रभावालब्धमाहात्म्येषु सुहृदयहृदयैकवेद्यनिरवद्यविद्वज्जनमण्डलीमण्डनायितविकटवाक्छटाटोपपाटनोत्पन्नयुक्ति (क्त) युक्तिमुक्ताशुक्तिजालाकुलीकृताशेषप्रकटप्रघटकार्थसांख्यमीमांसकौलूक्यशाक्यसौगततैत्तरीयादिसिद्धान्तसत्सदसद्विवेचनैकातिशायिदक्षेषु युगप्रधानलब्धपदप्रधानेषु भट्टारकश्रीमच्छ्री श्री १०४ श्रीजिनसुखसूरिप्रणतपादारविन्दयमलेषु सत्यार्थाभिधानप्रधानोपाध्याय श्रीधर्मवर्द्धनगणि उ० श्रीराजसागरगणि विविधवाचकवाचंयममधुकरसंसेव्यमानमल्लिकाकुसुमप्रतिमकोमलपत्कमलेषु ।
विविधविटपिगणराजितसुरभिकुसुमविमलकेतकीकुड्मलविवरविनिर्गतमधुर
मधुधारासारसीकरकणनिकरास्वादमधुकरझङ्काररवकरम्बितारामात्, अनेकाभिरामारामाराजितविदग्धजनगणप्रगुणगौरवगौरीकृतसकलदिग्वलयात्, रुचिरालयात् श्रीसोझितनगरात् सद्विनयात्
उ० विद्याविलासगणिभि: पं. विद्यामूर्ति - लब्धशील-अभयमूर्त्तिज्ञानप्रभु-विद्यारङ्गप्रमुखगुरुविनयाभिमुखसाधयन्तयुतै: (?) स्पष्टाष्टोत्तरशतनमत्कन्धरैर्द्वादशावर्त्तवन्दनतत्परैः विहितभवत्क्रमकुशेशयसम्मुखमुखविनयकलाकलापचतुरैर्निगद्यते ।
तथा च
प्रतिदिनं भवत्कृपाकटाक्षवितरणादेव देवसुरसरि ङ्ग इव
Jain Educationa International
1
For Personal and Private Use Only
www.jainelibrary.org