________________
जून - २०१३
१३३
(२२) जालौरनगरस्थ-भ. श्रीजिनसुखसूरि प्रति उपाध्याय-श्रीविद्याविलासगणिनो लेख:
पत्रं उ. श्रीविद्याविलासगणिलिखति पूज्यान् प्रति - स्वस्तिश्रीसदनं वृषौघवदनं श्रीनाभिभूपाङ्गजं,
सत्सौभाग्यविशालभोगकमलालीलाप्रदं प्राणिनाम् । तं देवं प्रण(णि)पत्य यस्य विमलायोध्यानकीर्तिभृशं (?),
___चान्द्रया पार्वण एष एव मयका लेखोऽधुना लिख्यते ॥१॥ तत्राऽऽदौ नगरवर्णनम् -
अस्ति प्रशस्तसुधाधवलितकोमलामलविहितचित्रैरपि विचित्रैः सरभसकेसरकेसरिसहस्रखरकरनि(न?)खरधाराविदारितमत्तमातङ्गकुम्भस्थलविगलितमुक्ताफलशबलितभूषणभूषितरामाजनवदनचन्द्रचन्द्रिकाप्रकाशितगवाक्षजालैर्मदमुखरराजहंसकुलप्रतिबिम्बितकोलाहलमुखरितपद्मरागहीरकाश्मजटितकुट्टिमतलैर्वेश्मभिरुपशोभितं; दिशि दिशि तारानिकरमिव कुसुमगण(णं) समुद्वहद्भिररुणाभिघातपरवशरविरथतुरङ्गग्रासविषमित० पल्लवैश्चन्द्रमृगनिगरणाऽमृतरसनिकरजातसेकैः मत्तकुम्भिकुम्भस्थलदारणोद्यतसिंहैरिवोत्फुल्लकेसरैर्गगनंलिहसारविहारैः पुनः सारिष्टैरपि चिरस्थितिभिरुपवनपादपैश्च, तिथिपरेणाऽप्यतिथिसत्कारपरेण, असंख्येनाऽपि संख्यावता, अमर्मभेदिनाऽपि वीरतरेण, अचक्रेणाऽपि सुदर्शनेन, अविदितस्नेहक्षयिणाऽपि कुलप्रदीपेन, पौरजनेनाऽनुगतं; शश्वद्वैयाकरण-नैयायिकादियुक्तिजालाकुलीकृताशेषकविचक्रवालैः प्रतिदिनसंसेव्यसंसेव्यमानगुरुचरणविशुद्धान्तःकरणवृत्तिश्राद्धजनगणैः शुद्धधर्माचरणैर्मण्डितं; भट्टभट्टारकैश्चाऽनवरतदह्यमानकालागुरुधूपपरिमलोद्गारैर्वासागारैः पक्वेष्टिकचितोटजनिविष्टश्रेष्ठविदग्धजनप्रस्तूयमानकाव्यधर्मकथाश्रवणोत्सुकितवृद्धैः शिशुजनकलकलारवनिवारणकृतक्रुद्धैः सन्ध्यावन्दनप्रतिक्रमणोपविष्टविहितव्यवस्थैर्बहुगृहस्थैश्चाऽनेकनरनारीजनगणस्वस्वकार्यागमनत्वरैश्चत्वरैश्चाऽपि विराजितम् ।
पुनर्यत्र योगेषु शूल-व्याघातचिन्ता, विपल्लवता वृक्षेषु न तु लोकेषु,
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org