________________
१३२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
सुधन्यो धनराजाह्वो-ऽकार्षीत् पारणपावनम् । लघुकल्पस्य लौल्येन लाभस्य वृष-श्रेयसाम् ॥२९।। श्रीगुरुपर्वसत्कस्य रायचन्द्रेण धीमता । कारितं भोजनं मिष्टं मोदकैस्तु विशेषतः ॥३०॥ एवं सद्गुरुदेवपूजनक्रियानुष्ठानध्यानादिभिः,
जातं श्रीगुरुवासरं बहुमहैराराधितं भक्तिभिः । श्रीमद्भिः शुभक्षामणं प्रतिदिनं ज्ञेयं त्रिसन्ध्यं सदा
श्रीसांवत्सरिपर्वकस्य भवतां वाच्यं मुनीनां च नः ॥३१॥ तूर्णं प्रदेया भवतां च पत्री ही भवानां शुभसौख्यकी। यथा प्रमोदो लघुसेवकानां सञ्जायते तत्प्रतिवाचनेन ॥३२॥ लेखेऽत्र यत्किञ्चन न्यूनवृद्धि प्रमादतो नः परिशोधनीयम् । दक्षैः सुधीभिश्च कृपा विधेया यथा शिशूनां वचनं जनेता ॥३३।।
अभय जैन भण्डार, बीकानेर
नं. २०६७६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org