________________
जून - २०१३
१३१
अमरसुन्दररूपप्रदायिनी विशदता कवशास्तुविशायिनी (?) । भुवनकीर्तिसुधीसुखकारिणी सुगुणदीपकस्नेहसुधारिणी ॥१७॥
त्रिभिर्विशेषकम् ।। विजयचन्द्रसूरीन्द्रमुनीश्वरान् सकलशास्त्रविनोदसुधीश्वरान् । पुरवरेषु विराजतिरातिथौ(?) रुचिररामपुरे सुपरिस्थितान् ।।१८।। सार्दूल इव सार्दूलः दुर्वारमारवारणे । पयोदो गुणवर्णाभ्यां सेवते गुरुपत्कजम् ।।१९।। जीवराजो दयायुक्तो कन्दर्पदर्पदर्पकः । तारुण्ये ललनालक्ष्म्यौ त्यक्त्वा यो व्रतमाददे ॥२०॥ रूपेण रुचिरं नाम रूपचन्द्राभिधानकः । नित्यं सुपठते शास्त्रं गुरूपदेशकारकः ॥२१॥ एभिः सुशिष्यैर्गुणपण्यपूरणैः सदा प्रसन्न मनोनुगामिभिः । साराजमानान् गुरुभक्तियुक्तिभिः हितोपदेशेन सुधर्मकारकैः ॥२२॥ रुचिरचम्पकपत्रवनावली विहगकूजितषट्पदकाकली। मदनलालनमानसमानिनी रमति यत्र सदा गजगामिनी ।।२३।। सकलपर्वसुपर्वसुपर्वणि सुकृतदानदयावृषचारुणि। अभिगते समकारि सुसङ्घकैः गुरुमहोछव-देवसुपूजनम् ॥२४॥ परमपावनकल्पसुसूत्रकं सुकृतसञ्चयसन्ततिपूरकम् । रसविधुप्रमितैः शुभवाचनैः अघहरन्तमवाचि मया तदा ॥२५॥ शुभप्रतिष्ठसुसङ्घसुमुख्यकैः प्रवर श्रोत्रपुटेन मुदा श्रुतम्। विशदधर्मगुणैर्गुरुपर्वकं विमलभावनया परिभाषितम् ।।२६।। शतमिता भु(ऽभ)वन् श्राद्धा पौषधव्रतधारिणः । सांवत्सरिकपर्वस्य परत्र हितकाम्यया ॥२७॥ कल्पस्य शुभभोज्यं च पञ्चाननस्य सद्मनि । जातं सन्मानसंयुक्तं ताम्बूलादिकपूर्वकम् ॥२८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org