SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १३० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ कृष्णेनाऽप्युद्गृहीत्वान्युरगगुणयुतं मेरुमन्थानदण्डं कृत्वा द्रष्टुं सुरत्नानि युगविधुमितं तानि दृष्ट्वा जहर्ष ॥५॥ यस्योपकण्ठे शुभसस्यरक्षणे क्षेत्रेषु गोपा बहुधा ब्रुवन्ति । शिरो विधूनच्छुशुभे सुधान्यकं गुरूपदेशादिव सत्यमार्हतम् ॥६॥ विविधधैर्यगुणादिकधारणं जरठदुर्जयमन्मथवारणम् । सकलशास्त्रविनोदसुकारणं प्रतिदिनं प्रणमामि मुदा गुरुम् ।।७।। स्वयशसा धवलीकृतविश्वकं चतुरतातनुसद्मनि दीपकम् । स्वकीयरूपमनोदयजीपकं प्रतिदिनं प्रणमामि मुदा गुरुम् ॥८॥ विजयचन्द्रसूरीन्द्रमुनीश्वरं वदनचन्द्रसहर्षविकस्वरम् । निजललाटसुभास्करभास्वरं प्रतिदिनं प्रणमामि मुदा गुरुम् ॥९॥ भविककामुकभावुककारणं मदनदारुणवारणवारणम् । मरणजन्मजराभयहारिणं विमलपञ्चमहाव्रतधारिणम् ॥१०॥ सकलमङ्गलसञ्चयपूरणं हरिसमानतमोभरचूरणम् । गजपतेरिव मन्थरचारिणं नमत सद्गुरुमाभवतारणम् ॥११॥ क्षोभनं मोहनं दोहनं पावनं कर्मणां देहिनां मेधिनां धर्मिणाम् । लावनं रक्षणं वर्द्धनं पालनं स्तौमि नत्वा गुरुं भक्तियुक्त्याऽनिशम् ॥१२॥ को लक्ष्मीपतिभूषणं वपुषि किं कुं पाति का बादरैः (?) । को गौरीपतिमौलिमण्डनयुगेऽस्मिन् मानिता कस्य वा ?। के सम्यक् निजभावभावनपरा: के सन्मुखास्सङ्गरे । एषामाद्यशुभाक्षरेषु गदितो जीयाच्चिरं सो गुरुः ॥१३॥ बहिल्ापिकेयम् ॥ तस्मात् पवित्रं परमं सनातनं सौहाईहाई शुभसौख्यकारकम् । लेलिख्यते पत्रमिदं मया मुदा कनीयसा पत्कजसेवकेन ॥१४॥ विजयचारित्रवाचकसाधुना सुमुनिलालजीकेन सहाऽणुना । सुऋषि वृद्धि-खुमानयुतेन च सुगुरुसंस्तवनेन सदा मुदा ॥१५|| युगमिता मिता(?) विततिर्नतिपूर्विका प्रतिदिनं क्रियते क्रमवन्दना । भविकशाखिसुधा(धो)दकसारिणी मदनदुर्द्धरसिन्धुरवारिणी ॥१६।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy