________________
जून
-
२०१३
(२१) श्रीविजयचन्द्रसूरिं प्रति वाचक-श्रीविजयचारित्रस्य लेख :
नमः श्रीविघ्नच्छिदे नमः ॥
यस्याः समीपे हरिसिद्धिसंज्ञका बभौ भवानी जनपूर्णकामदा । श्रीपार्श्वनाथांहियुगं प्रणन्तुं मेरो: सुशृङ्गादिह चे ( चै ) व भारती ॥ १ ॥ पुण्ये सुमासेऽत्र गृहे गृहे च गेयं च श्रोतुं पुरवर्णिनीनाम् । नानानुरूपं प्रविधाय गौरी कैलाशशृङ्गाच्च समागतेव ॥२॥
*
*
*
Jain Educationa International
स्वस्ति श्रीसदनं प्रकामदलनं संसारविध्वंसनं
सद्धर्मप्रतिरूपणं गुणगणं वन्दामि तावत् जिनम् । कर्मोद्भ्रान्तितदुःखिजन्तुशरणं मोक्षस्य सन्दर्शनं
संसारार्णवतारणं प्रतिदिनं मोहाग्निकंवर्षणम् ॥१॥ यत्र श्राद्धविचारसारचतुराः कुर्वन्ति धर्मार्हतम्,
यत्र ज्ञानविरामरागनिपुणाः तन्वन्ति तत्त्वात्मकम् । यत्र प्राज्ञप्रतिष्टबुद्धिषु पराः पाठन्ति विद्यावली:
च्छात्राणां प्रतिवासरं प्रियगिरा गायन्ति गीतं शुभम् ॥२॥ यत्राऽनेकमृदङ्गदुन्दुभिमहातौर्य्यत्रिकेणापि ते
सत्पूजागुणपुष्पचन्दनद्रवै: अर्चन्ति तीर्थादिमम् । श्राद्धाः कान्हजिकेन सङ्घपतिना कारापिते चैत्यके
यो देवो वृषभः सदा सुखकरो भूयात् स वो मङ्गलम् ॥३॥ श्रीमद्रामपुरे मनोरमपुरे सन्नीतिवृद्ध्यात्मके
राज्ये चारुणि ब्रह्मरूपकथनं संसारविच्छेदकम् । धर्मं वक्ति जिनोक्तिपद्धतिमयं श्रीसूरिसार्दूलकः
श्री श्री श्रीविजयेन्दु श्राद्धपुरतो भट्टारकः प्रत्यहम् ||४|| यत्र श्रीपार्श्वनाथं नमति प्रतिदिनं सिन्धुसिप्रामिषाच्च त्रिश्रोता क्षीरकूपारनु स्वयमगमत् यत्तडागस्थलात्तु ।
१२९
For Personal and Private Use Only
www.jainelibrary.org