________________
१२८
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
अपरं- अनन्याजन्यसौजन्य-लतावनपयोधरैः ।
स्वकीयप्रस्फुरद्धैर्य-तर्जितामरभूधरैः ॥१२॥ समग्रगुणरत्नौघ-प्रस्फुरन्मकराकरैः । संसारकक्षपञ्चाक्ष-वृक्षोन्मूलनसिन्धुरैः ।।१३।। मन्मनोऽम्भोजविस्मेर-सहस्रकिरणोपमैः । भव्यचित्तचकोरैक-शरच्छीतरुचिप्रभैः ॥१४|| गताखिलविषादैश्च, सुप्रसादैः सदा भृशम् । वन्द्यैः प्रसादमाधाय, लेख: प्रेष्यो मुदे परम् ॥१५।। लेखागमने भूयांसो, संजाता वासरा विभो! । न तत्र वेद्मि के(को) हेतु(:), प्रसाद्यो मे यथातथम् ॥१६।। अथ प्रसादमाधाय, प्रसाद्यस्त्वरितं मम ।
प्रसादलेख: श्रीवन्द्यै-विज्ञेया प्रणतिस्तथा ॥१७|| तथाऽत्र -
श्रीमद्भग[व]त्पादानां, पण्डितानां तथैव च । गणिनां विमलाद्धीरा-द्धीराद्विजयानामपि ॥१८॥ क्षेमाच्च वर्धमानाद्वि-जययोरनगारयोः । ज्ञेये [प्र]न(ण)त्यनुनती, ज्ञाप्ये तत्रत्यानां यथा ॥१९॥
यद्वचोऽमृतमाधुर्य-जिता नंष्ट्वा सितोपला । शलाकां स्वमुखे क्षिप्त्वा, काचघटीं विवेश किम् ॥१॥ कलाकलापकाम्यश्री-कुमुदोद्बोधकारकः । छायासम्भारसंयुक्तो, यः शशीव विराजते ॥२॥ अगण्यपुण्यनैपुण्य-लावण्यादिमसद्गुणैः । यः सुधीः शोभते बन्धु-रत्रोच्चैरिव वारिधिः ॥३।।
--x
मनिश्रीधुरन्धरविजयजी-सङ्ग्रहगत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org