________________
जून
-
२०१३
ह्रस्व-दीर्घगुणोपेतं, नानावर्णविभूषितम् । नगरं राजते यत्र, सज्जनाश्रितचित्तवत् ॥४२॥ अनेकवादितनादविडम्बितानि जिनसदनानि वादिकूलानीव । घनघनसाराभिषिक्तानि भूतलानीव जिनभवनानि । यत्राऽशोका: (का) लोका: (का) वृक्षाश्च । गीतार्थावेदकाः भट्टाः, श्राद्धाः, गान्धर्वाश्च | मनोर्थसिद्धिकृतः सुरा इव नराः । जिनभवने श्वर्गा(र्वगाः) अमृतभुज इव अप्सर (र: ) सम्भोक्तारोऽमरा इव नरा: (रा) दानकरा अप्यगजाः ।
I
I
तस्माद् विद्यापुरतः, पद्माण( न )न्दो विनेयपरमाणुः । संयोजितकरकमलो विधिवद्विज्ञप्तिकां तनुते ॥४२॥
श्रीमत् शान्ति (श्रीमच्छान्ति) जिनेन्द्रस्य, चरित्रं सुधियां पुरः । व्याख्यायतेऽत्र समहं, रचनाकलिताश्रये ॥४३॥ प्रस्तुतं पठनं पाठन - मुपधानं सुयोगवाहनं चाऽपि । इत्यादि धर्मकृत्ये, प्रजायमानेऽथ निर्विघ्नम् ॥४४॥ वार्षिकपर्व समागा - दखिलसुपर्वातिसर्वगर्वहरम् । तत्राऽभूत् सानन्दं, व्याख्यानं कल्पसूत्रस्य ॥४५॥ अपि [च] द्वादशदिवसान्, मारिनिवारणपटुः पटहघोषः । श्रीतातपादकीर्त्ति (र्त्ति) - कीर्त्तनपाठ इवाऽपाठीत् ॥४६॥
तथा चतू (तु) र्मास - [क] वत्सरादि- सत्पारणे पोषणमार्हतानाम् । स्नात्रादिनाऽर्हत्प्रतिमार्चनं च, सञ्जातमद्याऽपि च जायतेऽत्र ॥४७॥ अनेकषष्टाष्टमदुस्तपानां, विधापनं याचकदानदानम् । श्रीतातपादातुलनाममन्त्र - स्मृतिप्रभावप्रकटोदयेन ॥४८॥
अपि च
१२५
तव संस्मरणमनःप्रसरे ये कृतहर्षरङ्गा
दर्शनतो विकसितनयनास्ते शिवसौख्यभराङ्गाः । जीवन्तोऽपि मृतास्ते ये भवदविनयकृतरङ्गाः (ङ्गा)
देवगणैरपि ते महिता ये तव सेवनसङ्गाः ॥४९॥ वन्द्यः किं न हि रेणुकणो यस्तव चरणे लग्न: (ग्नो) निस्तीर्णोऽपि स एव जना (नो) यस्तव वचसि विलग्नः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org