SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १२३ यत्रोत्तुङ्गजिनेन्द्रसद्मशिखरप्रान्ते सू(सु)तीक्ष्णेऽक्षलत् । ---------- तत्रैकस्तुरगः पयोधिरसनापीठेऽपतच्चाऽष्टमः प्राप)त्तत्प्रभृति प्रभु(भू)तविभवः सप्ताश्वसञ्ज्ञां रवि(विः) ॥३३॥ रात्रौ यत्र जिनेन्द्रसद्मशिखराण्याभान्ति वृक्षा ई(इ)व, । येषां बिभ्रति तारका विकसिता व्योम्नि प्रसूनव्रतम् । नेत्रानन्दविधायकं फलमयं तत्राऽलगच्चन्द्रमाः(मा) नो चेद् देवतया कथं कथमयं व्यावर्ण(l)ते सज्जनैः ? ॥३४॥ यत्र जननीरागाः पुत्राः क्रीडावन-पर्वताश्च, न नृपाः(३), सारङ्गाल्युपचितानि वनानि नगराणि च(२), यत्र नीरङ्गाः मत्स्याः (२) न तु जनाः, घनाघनाः(ना) मेघाः(घा) न तू(तु) यन्निवासिनः, कादम्बरीकथा इवाऽप्रापितान्ताः स्त्रियो बुद्धयश्च(२), ध्रियते दानसौरभमिभैरिभ्यैश्च (२), मात्रागणना छन्दःशास्त्रेषु (२), मित्रोदयद्वेषिनो(ण) उलूको(काः)(२) न तु विषयजनाः । चित्रं चपरद्रव्यापहारिणो यत्र व्यवहारिजनाः (२), न तु चौराः । किं वर्ण्यतेऽधिकं देशो, लेशो नास्ति कुकर्मणाम् । हिंस्य-हिंसकभावोऽपि, कर्माऽधर्मेष्व योज्यते(?) ॥३५॥ तत्र देशे यत्र पुरे प्रमाणशास्त्रतोऽप्यधिकप्रमाणता (२) यत्र न द्रव्यप्रमाणं(२) न गुणानां मानं (२) बुद्धकि(द्धिक?)रणमानान्यपि कर्माण्यनेककर्माणि (२) सत्यपि सामान्ये सामान्यजनभावः (२), परं विशेषघटनायां सास्रघट्टनम् (२), अनेकशो यत्र समवायाः (२), प्रागभावपरिपालनमपरिपालनं च सदाऽसत्सद्वस्तुनिष्पत्तौ । प्रद्ध्वंसाभावाभावोऽपि धर्मा(म)कर्मणि । कुकर्मण्यत्यन्ताभावः । सर्वज्ञातिष्वन्योन्याभावः । यत्र सुसूत्राणि- द्विजवक्षांसि, विपुलशास्त्राणि, धनिगृहाणि परिधानाम्बराणि च (४) । सदा विकसितानि- जनचित्तानि, अरिमण्डलानि, कमलाकरेषु कमलानि, करावयवाश्लिष्टभूषणानि च (४) । सदा सुरभिसम्पन्नानि भोगिगृहाणि सन्त्यसुरगृहाणि च, न सन्त्यधमर्णगृहाणि । सुरगृहाणीवा-(णि चा)ऽन्तर्मन्दिराणि(?) बहिश्च गोकुलानि कमलाकरेषु कमलानि(नी)व (२) । यत्राऽरिष्टवासिनो रिष्टं भजति (२) । यत्र सरोगाणि हंसयमलानि, न त्वजन(?)श्राद्धकुलानि । यत्र श्राद्धकुलानि न जातानि सदूषणानि विधाधरकुलानि(नी)व * श्लोके द्वितीयपादः प्राप्तो नाऽस्ति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy