SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १२२ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क उत्फुल्लामलकोमलोत्पलदलव्यालोलभृङ्गावली झङ्कारारवगीतगाननिपुणाः सौवर्णकुम्भा बभुः । यत्राऽर्हत्सदनेषु सौवविभवस्वर्गत्रपासम्भवां (वा) गायन्तीव जयश्रियं जिनपतिप्रसादवृन्दस्य किम् ? ॥२६॥ उद्यत्पीनपयोधरप्रतिभटाश्चञ्चत्कुटा रेजिरे यत्र श्रीजिनचन्द्रचन्द्रशिखर श्रेणीषु लब्धास्पदाः । भूपीठात् कलिकश्मलादिकलुषान्निर्गत्य रम्भास्तनै र्वैराद् देवगृहेऽप्यगन्तू (न्तु) मनसो तिष्ठन्निहैव ह्यमी ॥२७॥ भोगान्ते परिणाममन्थरदृशो व्यामूढसिद्धाङ्गनाः, कामव्याकुलभर्तृदत्तनखरश्रेणीविदीर्णस्तनाः । यत्र श्रीजिनसद्महेमकलशान् प्रालेयसच्छीतला नौत्सुक्यात् परिरभ्य गाढमुरसा शश्वल्लभन्ते सुखम् ॥२८॥ यत्र स्फाटिकजैनसद्मशिखर श्रेणीस्थकुम्भावली मुद्यत्तप्तसुवर्णचूर्णघटितामालोक्य जातत्रपाः । मन्ये पीनपयोधराः स्मितदृशां नंष्ट्वाऽविशन् कञ्चुके काठिन्योपचिताश्च चूचुकमिषात् श्यामं मुखं चक्रिरे ॥२९॥ कुर्वन्तः शतचन्द्रितं शुचिनभः शृङ्गारयन्तो दिशः पुष्णन्तो नगर श्री ( श्रि ) यं रुचिभरैः स्यन्तस्तमोमण्डलम् । मुष्णन्तो दिवि तारकान् रुचिभरैः सौवर्णकुम्भा बभु र्यत्र श्रीजिनराजसद्मशिखर श्रेणीप्रवेणीगताः ||३०| कुम्भोऽयं किल चक्रवर्त्तितनयो वप्ता च पीताम्बुधे राजन्माग्निविशुद्धि(द्ध)शीलविमलस्सर्वाङ्गसौन्दर्यभाक् । कल्याणेषु वसुप्रमेषु जगतामाद्यं तथा मङ्गलं मन्येऽधारि कुटैरितीव मुकुटीभूतः शिरस्यर्हताम् ॥३१॥ शीतांशुर्विहरन् विहङ्गनिगमे व्यामूढगत्याऽन्यदा यत्रोत्तू (तु) ङ्गजिनेन्द्रसद्मशिखरप्रान्तादवाप्तक्षतः । मन्येऽतः समभूत् कलङ्ककलुषो नो चेत् कुतोऽतः परं Jain Educationa International खण्ड २ भूयो भ्रंशभिया विलम्बितगतिर्नित्यं शशाङ्को भवेत् ? ||३२|| For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy