SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १२१ प्रासादोद्यत्पताकाऽञ्चलचपलरणत्किङ्किणीकोटिरावै रात्रौ सङ्गीतरि(री)तिप्रवणमतिमतां जागरं या करोति । प्रातः प्रासादघण्टारवमुखरहरीकुञ्जगुञ्जन्मृदङ्ग ध्वानान्नाट्यं नटद्भि(:) शिखिभिरुपहितं कोकिलामञ्जुगी[तम्] ॥१९॥ वित्तोपायनजीविनः सुरगणा मत्तोऽभवन् दिग्गजा वाताद्यै रजसो विशुद्धकरणाच्चन्द्रादयो द्योतनात् । पातालाद् भुजगाधिपोऽपि चरणव्याजाच्च मां सेवते विश्वस्येयमितीव बोधनकृते याऽऽधत्त चण्डध्वजम् ॥२०॥ उच्चैर्दण्डपताकिकाकपटतो याऽपूर्वसल्लेखिनी मन्ये स्वं भुजमुद्विधाय लिखतीत्युच्चैर्नभोमण्डले । नाऽर्हद्भ्यः परमेश्वरा न च रवेस्तेजो परन्नापरन्(म्) व्यु(व्यू)ढं व्योमतलात् तथैव न पुरी मत्तोऽधिका विष्टपे ॥२१॥ लोकोद्धारधुरन्धरा वयमितो गर्जन्तु भां दिग्गजाः . क्षोणीपीठसमुद्धृतेर्भुजगराड् गर्वं दधातू(तु) क्षणम् । मेघाद्याः क्षितिजीवनोपकृतितो पुवै(पूर्वे) स्थितं तन्वतां चिन्तातीतफलप्रदा वयमतो हृष्यन्तु मण्यादयः ॥२२।। विश्वोद्योतकरा वयं वयमितिच्छायाभृदर्कादयो देवानां पदवी तले प्रमुदिता नित्योदयं कुर्वताम् । यः कश्चिन् न हि मन्यते जिनपतिं तस्यैष दण्ड: पटु मूर्व(र्द्ध)स्फोटनकृत् करे भ्रमति मे वक्तीव या पूरिति ॥२३।। माद्यन्मत्तमधुव्रता रणजणझंकारबद्धादराः(रा), गर्जदिग्गजगल्लभित्तिपटलीस्त्यक्त्वा पुरा स्संस्तुताः(?) । उद्यन्नूतनगन्धबन्धविवशा मेघभ्रमं तन्वते यत्रोत्तुङ्गविहारशृङ्गकलशेषूच्चैः पतन्तोऽनिशम् ॥२४॥ यत्र श्रीजिनमन्दिरेषु सततं कल्याणकुम्भा बभु भूयः सौरभलालसे:(सैः) सुमनसां मालाप्रसूनव्रतैः । श्यामीभूतमुषा इतीव भगवद्भक्त्यैकबद्धादराः(रा) एतेऽद्यापि किमङ्ग नैव मनुजा मोक्षश्रीयां(या) भाजनम् ॥२५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy