________________
जून
-
२०१३
(१९)
श्रीपद्मानन्दमुनिलिखितो विज्ञप्तिलेखः
श्रीगुरुभ्यो नमः ॥
स्वस्ति श्रीरभवद् मरालदयिता नव्या पदाम्भोरुहे
Jain Educationa International
नित्यं वासमुपेयुषी स्वयमतः शृङ्गारिताभाजनम् ।
ज्ञात्वैवोत्सुकमानसाऽऽश्रयवती लोलेक्षणा लोचन: (न-)
भ्राम्यद्भृङ्गविनोदनोदनमिदं तज्जीवनाद् दूरगम् ॥१॥ रम्यारिष्टवरिष्ठलष्टविलसत्प्रोद्दामधामास्पदं
चञ्चल्लोलशिखाप्रथाः प्रथयते यस्यांऽसयोर्वंशयोः । शोभां हाटकभूधरोद्गतलसत्सच्चित्रवल्याः स्फुटं
सर्वानन्दपदप्ररोहधरणीं विश्वर्द्धिविख्यातिनीम् ॥२॥ यस्यांऽसयोर्हाटकहारिवर्णयोः, शिरोरुहाणां लतिका विरेजे । स्वर्णाद्रिकूटस्थघनावलीव, सार्वाग्य – कृष्णपतिस्वरूपाः ॥३॥ श्रीनाभिनन्दन ! महोदयदीप्तदेह !, श्रीनाभिनन्दनमहोदयदीप्तदेह ! श्रीनाभिनन्दनमहोदयदीप्तदेह !, श्रीनाभिनन्दनमहोदयदीप्तदेह ! ॥४॥ सुरावलः शोभननन्दनाढ्यः, प्ररूढकल्पद्रुमशालमानः । सुपर्वपर्षत्परितोषहेतू: (तु:), श्रीमारुदेवः सुरभूधरोऽभूत् ॥५॥ वृषाङ्को धूर्जटी देव:, शङ्करो घनवाहनः । महाव्रत्यभवो योऽस्ती - शानो रुद्रो महाव्रती ॥६॥ वृषाङ्कोऽपि वृषैर्हीनो, वृषलाञ्छनकोऽपि यः । मृत्युञ्जयो मृत्युकोऽपि मृत्युञ्जयनरेरितः ॥७॥ स्वस्तिश्रीभृदुरीकृतो यदि कृतो भीतः कुरङ्गोऽप्ययं
सौवाङ्के विनिवेश्य लाञ्छनमिषादित्याप्तभावादिव । सिंहाद्यैरभिभूत एष गहने कान्ताकटाक्षैः पुरे
लीनोऽप्यब्जमभूत् कलङ्ककृदहो त्रायस्व मामप्यतः ॥८॥ पारापतोऽपि यदि देहसमर्पणेन, प्राग् नाथ! मेघनरराजभवेऽप्यरक्षि । सम्प्रत्यवाप्तभुवनोत्तमवैभवोऽपि, स्वान्तार्पणेन किमु नाऽवसि मां भवाब्धेः ॥९॥
११९
For Personal and Private Use Only
www.jainelibrary.org