SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ११८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ गुरुसमागममात्रसमुद्भवद्-भवविरक्तमतिस्त्वमहो! यथा । इह विमुक्तगृहा नवयो(यौ)वने, स्फुरतिके रतिकेलिवने तथा ॥६८॥ यां विधाय विधिना कृतार्थता, स्वश्रमस्य निरवापि चेतसि । प्रत्यतिष्ठ(ष्ठि)पदिति प्रगल्भधी-श्चारुमूर्त्तिगुरुरेव निर्मिता ॥६९।। अगण्यपुण्यो जयति प्रसिद्धः, गुरुर्गरीयान् विजयरत्नसूरिः । तारामिषात् तस्य गुणव्रजस्य, स्फुटा विधेः खे गणनादिगेषाम् ॥७०।। क्षमाश्रयत्वाद् विगलद्विषादै-र्जगत्रयीसेवितयुग्म(पुण्य)पादैः । शिशोर्बुधोत्तंसयुजोऽवधार्या, श्रीतातपादैः प्रणतिस्त्रिसायम् ॥७१॥ तथा तत्र - . कलितस्वपरविशेषा, सम्मतिशास्त्रा(स्त्रम्) इवाऽस्मदिष्टतमाः । पण्डितपर्षमुख्याः, श्रीपुण्यसुन्दरो( रा) विबुधाः ॥७२॥ श्रीविमलविजयविबुधाः(धा), विबुधाः श्रीज्ञानविजयनामानः । महिमासुन्दरविबुधाः(धा), गणयः श्रीलक्ष्मीविजयाख्यः(ख्याः) ॥७३॥ लाभसागराख्यगणयो, वर्गे श्रीतातचरणभक्तेऽस्मिन् । नत्यनुनति(ती) प्रसाद्ये, यथाक्रमं सत्क्रमोत्तुङ्गैः ॥७४|| अत्र- धीरविजयाख्यविबुधाः(धा), गणयः [श्री]प्रेमविजयनामानः । अत्रालयाधिष्ठाता, वृद्धश्च सहजविजयगणिः ॥७५।। इत्यादिमुनय(मुनि)वर्गः, श्राद्ध-श्राद्धीश्च विनयनम्राङ्गः(?) । श्रीगुरुचरणकमलं, प्रणमति भक्त्योल्लसच्चित्तः ॥७६।। विज्ञप्तिरियं लेखः, ऋषि-विधु-त्रि-बाणमानमितवर्षे । फाल्गुनसितसप्तम्याम्, इति मङ्गलं स्याहपुरनगरे ॥७८।। ॥ इति श्रीविजयरत्नसूरीश्वरविज्ञप्तिरियं लेखः । -xशेठ आणंदजी कल्याणजी जैन पुस्तकभण्डार लींबडी Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy