SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ११७ धर्मकर्माण्युदप्युच्चै-र्जातं सञ्जायतेऽपि च । उपधानव्रतोच्चार-सन्मालारोपणादिकम् ॥५६॥ सर्वस्यामपि धर्मस्यो-न्नतावस्यां निबन्धनम् । कृपाऽनूचानपादानां, प्रत्यूहपटलच्छिदाम् ॥५७॥ अपरम् - ॥ इति श्रीवीजापुरस्याहपुरवर्णनम् ॥ अथ श्रीविजयरत्नसूरिवर्णनम् - यदीयकेशैः कृतबर्हग), बी धृतहीक इव प्रणष्टः । जिगीषया स्कन्दमपि प्रपन्नो, लेभेऽर्द्धचन्द्रं महतोऽपमानात् ॥५८॥ गुणा(णां)स्त्वदीया(यान्) तपगच्छनाथ!, वक्तुं समर्था न भवन्ति देवाः । अतः कथं मन्दमतिः प्रभोऽहं, भवामि तान् वर्णयितुं समर्थः ।।५९॥ विजयरत्न! तपागणनायक!, श्रितमनिन्दितमंहियुगं यकैः । तव नरप्रवरैर्जगतीह तं, न हि विमुञ्चति रागवशाद् रमा ॥६०॥ क्षमानदीनायक! नायक! श्री-तपागणेशाऽद्भुतभारती ते । यैः कर्णजाहं विहिता प्रधानै-नरैर्न तस्य प्रभवन्ति दोषाः ॥६१॥ स श्रीमान् विजयी जयी विजयतां सूरीशचूडामणिः, श्रीमत्श्री(च्छी)विजयरत्नसूरिसुगुरुर्गाम्भीर्यवारांनिधिः । यस्य श्रीगणनायकस्य नयनानन्दप्रदं दर्शनं, दृष्ट्वा महृदये भवत्यविरतं हर्षप्रकर्षो महान् ॥६२।। आराधितं त्वच्चरणारविन्द-मेकाग्रचित्तेन यकैनरैस्तान् । नरान् नमन्ति प्रकटप्रभावान्, सदेवविश्वत्रितयीमनुष्याः ॥६३।। यः संस्तुतो यच्छति मोक्षलक्ष्मी, तपागणेशो जगतीजनस्य । वदान्यमुख्यं सुगुरुं विमुच्य, तं कं श्रयेत् प्राज्ञजनोऽन्यमत्र ॥६४|| हृतारिष्टदिष्टप्रकृष्टप्रहृष्ट-स्वधीमृष्टसंक्लिष्टता शिष्टता ते । कनिष्ठा न दृष्टा गरिष्ठा नु दृष्टा, वरिष्ठाशयैरिष्टदृष्ट्याऽविरोधात् ॥६५।। विपक्षप्रतिक्षेपदक्ष! त्वदंहि,(?) प्रभोऽध्यक्षलाक्षारसक्षालितेव । परि(री)क्षाकरी दक्षतालक्षणाना-मरुक्षाक्षरक्षारतासक्षणानाम् ॥६६।। हरशिलोच्चय-हार-मरुन्नदी-हसिततारक-शीतकरश्रियम् । अनुहरन्ति परिस्फुरितव्रता-युधवला धवला तव कीर्तयः ॥६७।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy