SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ११३ श्रीचिन्तामणिपार्श्वदेवमतुलज्ञानैकरत्नाकर, दृप्यदर्पकदर्पमर्दनमहादेवं प्रणम्याऽऽदरात् ॥६।। स्वस्तिश्रीः फलदायकः स भवतां भूयाद् भवापायहृत्, पार्श्वः श्रीभगवान् कठोरकमठोदग्रस्मयध्वंसकृत् । यस्याऽम्बा शयनीयगा निशि तमस्यप्याशु पार्वे स्फुटं, सर्पन्तं भुजगं निरीक्षितवती पार्वेति संज्ञा ततः ॥७॥ शिरःस्थनागेन्द्रफणामणीनां, मिषेण दीपानिव सप्त दधे । यो नित्यमुद्योतयितुं जगन्ति, स पार्श्वविश्वप्रभुरस्तु सिद्ध्यै ।।८।। दत्त्वा च दानानि तपांसि तत्त्वा, लोकोत्तरं मोहरिपूंश्च हत्वा । येनाऽजितं वीरयशस्त्रिधाऽपि, स वीरदेवः शरणं ममाऽस्तु ॥९॥ इति श्रीवीजापुर-स्याहपुरमण्डनश्रीतीर्थवर्णनम् ॥ अथ उदयपुरनगरवर्णनम्यस्मिन् जिनेश्वरगृहेषु सुवर्णकुम्भोः (म्भो), भास्वत्प्रभाभिरभितः प्रसरीसरीति । अश्नन् रुषो(षा?) निजकमूर्द्धगभानुभानू-नाहारतुल्यतरमुद्गिरतीव मन्ये ॥१०॥ जिनस्य चैत्योपरि निष्ककुम्भो, यस्मिन् पुरेऽतीव विभाति रम्यः । किं सिंहिकापुत्रभयादिवाऽभ्रा-दागत्य भानुः शरणं प्रपन्नः ॥११॥ सन्दृश्यते पाण्डुपलाशकल्पो, दिवा निशेशो गगनाङ्गणस्थः । जगत्त्रयव्याप्तजिनप्रताप-सूर्योदयेनेव हतप्रभावः ॥१२॥ स्वच्छातुच्छदुकूलवारणघटारङ्गत्तुरङ्गावलीलाभाद् यत्र समागता धनदवत् प्राप्ताः प्रभूतां श्रियम् । सार्थेशा स्वपुरं गताः प्रतिकलं प्राणप्रियाणां गणैरन्ये इत्युपलक्षिता न शपथादानेन विश्वासिताः ॥१३॥ तपोग्नियोगान्न लभेत याव-दात्मार्जुनं शुद्धिमतीव तावत् । न युज्यते निर्वृतिमुक्ति(द्रि)काया-मितीव केचित् तपसा परीताः ॥१४॥ आदेयहेयो(ये) सदसत्प्रवृत्ति(त्ती), सम्यक् श्रुतेरेव विदन्ति दक्षाः । इतीव केचित् पुरतो नराणां, समुद्यता धर्मकथाप्रथासु ॥१५॥ सर्वेषु दानेषु रमानिदानं, ज्ञानस्य दानं भगवद्भिरुक्तम् । अतः श्रुतज्ञानरहस्यसङ्ख्या-सङ्ख्यानतानाः कतिचिद् विविक्ताः ॥१६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy