SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ११२ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ इत्यादौ मुनय(नि)वर्गे, श्रीपूज्यचरणकमलभक्तेऽस्मिन् । नत्यनुनती प्रसाद्ये, यथाक्रमं सत्क्रमोत्तुङ्गैः ।।८२॥ धीरविजयाख्यविबुधाः(धा), गणयः प्रेमविजयसज्ञाश्च । एकत्रस्थानसंस्थित-वृद्धस्तु सहजविजयगणिः ॥८३॥ इत्यादिसाधुवर्गः, सङ्घोऽत्रत्यश्च विनयनम्राङ्गः । श्रीपूज्यचरणकमलं, प्रणमति भक्त्योल्लसच्चित्तः ॥८४|| मुनिचन्द्रत्रिशर(१७३५)मिते वर्षे हर्षेण श्याहपुरनगरे । कृष्णस्तु माघपञ्चमि(मी), इति मङ्गललेख(खो) लिपीचक्रे ॥८५।। ॥ इति श्रीविजयप्रभसूरिविज्ञप्तिरियम् ॥ (२) उदयपुरस्थं श्रीविजयरत्नसूरि प्रति प्रेषितं पत्रम् स्वस्तिश्रीरमणः करोतु कुशलं श्रीमारुदेवाभिध स्तीर्थाधीश्वरसत्तमस्तनुमतामानम्रसङ्क्रन्दनः । यस्यांऽशे रुचिरालिसन्ततिरिव श्यामा जटा कोविदै दृष्ट्वाऽतर्कि किमित्यसौ स्थितवती कादम्बिनी भूधरे ॥१॥ स्वस्तिश्रियं दिशतु भूपतिविश्वसेन-वंशाम्बरद्युमणिरस्ततमा जिनेन्द्रः । उच्चैरचिन्त्यगरिमा किल यस्त्रिलोकी-मित्रप्रसिद्धिमभजन्मृगलाञ्छनोऽपि ॥२॥ स्वस्तिश्रियां मम परं परिरम्भशर्म, सम्पादयत्वनघधर्मनिधिः स शान्तिः । मा भूद् वनेऽपि गगनेऽपि च सैंहिकेयाद्, भीतिर्ममेति हरिणो भजते यदंहिम् ।।३॥ स्वस्तिश्रिये स भवताद् भवतान्तिभेदी, नेदीयसीमुपदिशत् शिवमार्गनिष्ठा[म्] । निर्लक्ष्म यन्मुखमभून् मृगसेवयेन्दू, रकर्यदंहिमभजत् तमिवाऽनुगन्तुम् ॥४॥ यस्याऽग्रतः सुमनसः सुमनोभिमुक्ता, युक्तं बिभीत्य(विभान्त्य)लमधःकृतबन्धनौघाः । एतासु यत् त्रिजगतीजनचित्तमोह-सम्पादकत्वमिदमद्भुतमाततं न (?) ॥५॥ स्वस्तिश्रीः शुभदं यदीयचरणं प्राशिश्रियत् पूजितं, पौलोमीपतिना सुमेरुशिखरे निर्माय जन्मोत्सवम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy