________________
जून - २०१३
१११
कूर्मोन्नते त्वच्चरणारविन्दे-ऽरुणा विभो! भाति नखावलीयम् । सेवां विधातुं शशिनेव साक्षात्-सम्प्रेखि(षि)ता तारकसन्तति[:] किम् ॥७०॥ स संस्तवार्हः कलिकाल एषः(ष), यत्र प्रभो! त्वं मम नायकोऽभूत् । शुभेन किं तेन युगत्रयेण, यत्रांऽहिसेवा तव नोपलब्धा ॥७१।। तव क्षमागार! महानगार!, बुद्ध्या जितो देवगुरुश्चकार । स्वयं निवासं गगनान्तराले, स्वकीयचित्ते किमु लज्जमानः ॥७२॥ कलाकेलिगेहं कलाकेलिदेहं, कलालापमस्तोकलावण्यपुण्यम् । महालाभवन्तं भवन्तं भवन्ति स्तुवन्ति ज्ञवृन्दानि धीवस्तुवन्ति ॥७३॥ हृताघप्रपञ्चोरुचञ्चद्विचार-प्रचारप्रियाचारुसञ्चारु(र)चारु । तव ज्ञान-विज्ञान-वैदुष्य-लक्ष्मी-विलासः किलाऽसह्य एवाऽन्यतीर्थे:(W:) ॥७४॥ तपागणाधार! तवाऽनुरूपः, क्षमाधरः कोऽपि मया न दृष्टः । यतः कृतघ्नेषु नरेषु जातो, भवान् कृतज्ञः करुणार्द्रचित्तः ॥७४।। अगण्यपुण्यो जयति प्रसिद्धः, सूरीश्वरः श्रीविजयप्रभोऽसौ । तारामिषात् तस्य गुणव्रजस्य, स्फुटा विधेः खे गणनादिगेषाम् ॥७५।। तेषां श्रीपूज्यपादानां, लेखो नैकोऽप्युपागतः । अद्ययावदिहाऽब्दे तत्, स प्रसाद्यः कृपापरैः ॥७६।। तैर्निर्जितानेककुतीर्थवादैः, सदा वदान्यत्वकृतप्रसादैः । आचारनिष्ठानिहतप्रमादैः, परम्पराप्राप्तपरप्रवादैः ॥७७॥ क्षमाश्रयत्वाद् विगलद्विषादै-विश्वत्रयीसेवितपुण्यपादैः । शिशोर्बुधोत्तंसयुजोऽवधायी(ा), श्रीपूज्यपादैः प्रणतिस्त्रिसायम् ॥७॥ तथा तत्र - गणहितचिन्तननिरता, विबुधाः श्रीहेमविजयगणिमुख्याः । प्रीतिविजयाख्यविबुधाः(धा), दक्षा: शिक्षाविधानपराः ॥७९॥ विबुधाश्च उदयविजयाः(या), वैयावृत्यादिकृत्ययेन(?) पराः । रूपविजयाख्यविबुधा-स्तथा बुधा लब्धिविजयाख्याः ॥८०॥ सौभाग्यविजयगणयो गणयः प्रतापविजयसञ्जाश्च । तपनिष्ठखिमाविजयो दयाविजयाख्यास्तथा मुनयः ॥८१।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org