________________
जून - २०१३
अपरमथ श्रीविजयप्रभसूरिवर्णनम् । तत्र हस्त एवाऽष्टकेन वर्ण्यते - यावतां समुपगृह्य गुणांशान्, यत्तनुं शतधृतिः प्रणिनाय । शङ्खवज्रमकरादिकलक्ष्मा यत्करः स्फुरति तावदुपेतः ॥३०॥ यत्करः स्फुरति रोहणशैलो रत्नभूरिति न चोद्यमिदं नः । नामतोऽपि किल येन सुरत्नं, स्थापितो विजयरत्नगणेन्द्रः ॥३१॥ अङ्गुलीभिरुदितोज्ज्वलशाखो यत्कर: सुरतरोरवतारः । इष्टदानजनितं सुकृतं यत् _ _ _ _ _ _ तत्परिणामः ॥३२॥
_ _ _ _ _ सुरशाखी यत्करो निखिलभाग्यसहायः । किन्तु तत्र फलदाननियन्ता रक्षिलक्षसम एकनियोगी ॥३३॥ योगिनो भवति वैभवभाजा, यत्करेण विबुधत्वमिहैव । अन्यजन्मनि तथा फलदातुर्योगतोऽपि तदयं बहु मेने ॥३४|| यत्करेण विबुधत्वमुदीतं यच्चतुर्दशगुणार्द्धगुणस्य । अप्यपूर्वकरणादधिकद्धा , तेन चित्रतरलं हृदयं नः ॥३५॥ भालमालय उदारगुणानां, यत्करश्च सुकृतोदयसूची । तुल्यभाग्यविधिसूचकमेतत्, सूत्रभाष्ययुगवद् द्वयमिष्टम् ॥३६।। यत्करौ जनुरवाप यदब्नं, तेन तत्र वसति स्थिरलक्ष्मीः । इत्यदःकलितपृष्टतलानां, प्राणिनां तदुदयः स्फुट एव ॥३७॥ तैरच्छश्रीतपागच्छ-सन्ततिव्रततिद्रुमैः । प्रणतिः शैशवी धार्या, श्रीपूज्यैरुपवैणवम् ॥३८॥ तत्र पं. गंगकुशलगणि, पं. हेमविजयगणि, पं. प्रीतिविजयगणि, पं. शुभविजयगणि पं. विमलविजयगणि, पं. उदयविजयग., ग. सौभाग्यविजयप्रभृतीनां श्रीपूज्यचरणकमलपरिचरणपरायणानामनुपूर्वा नतिः प्रसाद्या। अत्र पं. ज्ञानविजयग., पं. वीरविजयग., पं. सत्यविजयग., पं. भक्तिविजयग., पं. हितविजयग., पं. पुण्यविजयगणि, गणि कान्तिविजय, ग.गुणविजयप्रभृतिः साधुवर्गः पटूभूतमतिवैभवमटूप्रभृतिसाध्वीवर्गः सङ्घश्चाऽनघः श्रीपूज्यपादान् भक्तिभरनिर्भरः प्रणमति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org