SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जून २०१३ शुभोद्देशादेशात् कुनयगहने शातनकृतो जिनेशाः क्लेशान् वः सपदि दलयन्तूज्ज्वलगुणाः ||६|| सहस्रांशोजैत्रं यदुरुगुणबोधेन तमसः पुरस्तादस्ताघं किमपि लसति ज्योतिरमलम् । तदार्हन्त्यं सत्यस्थितिपदमदंजं (म्भं ?) भवभय प्रणाशि प्रोन्मादोन्मथनमथ चित्ते प्रणिदधे ॥७॥ सहजमलदिदृक्षावासनाजन्मबीज- प्रकृतिविकृतिमायादृष्टमुख्यैः पदौघैः । यदभिहितमतन्त्रं नाशने तस्य तन्त्रं, जयति जिनपतन्त्रं सर्वतन्त्रप्रतिष्ठम् ॥८॥ सद्यः सारस्वतोद्गार-सुधासारोपबृंहितान् । विनिर्माय नमस्कारान्, भूयस्कारान् वृषश्रियः ॥९॥ ॥ इति श्रीदेववर्णनम् ॥ ९७ अथ नगरवर्णनम् । तत्र प्रथमं वर्गवटीनगरी वर्ण्यतेया स्वर्गवाटी किल सत्फलर्द्धिर्विश्वोपकाराय कृता विधात्रा । वात्सल्यतस्त्वेष जनोऽभिधत्ते यां वर्णमात्राच्युतकेन मन्ये ॥१०॥ या वेधसा नूनमकारि लङ्काऽलङ्कारसारं सकलं गृहीत्वा । इतोऽपमानात् किमु सा न झम्पासम्पातमब्धौ सहसा ततान ॥ ११ ॥ पुनाति यां वै श्रमणाधिराजो न्यासैः पदाब्जस्य जनौघवन्द्यैः । कुतोऽधिका वैश्रवणाश्रिता स्यात्, तस्याः सकाशादलकाऽधिकारैः ? ॥१२॥ यदर्हदुच्चस्फटिकालयानां, कैलाशशैलाधिकवैभवानाम् । तुल्योपभोगाय समायकाय - व्यूहश्रियं वाञ्छति वामदेवः ||१३|| यदीयचैत्यालयतुङ्गशृङ्ग-वेल्ल [द्] ध्वजप्रान्तकशाभिघातैः । अनूरुविश्रामसुखं दिनेश - तुरङ्गमालस्यनिवारणात् स्यात् ॥१४॥ तस्यां श्रीवर्गवट्यां पुरि दुरितशतध्वंसकृत्पूज्यपादप्रत्यासत्तिप्रसङ्गोपनतततमहोल्लासशोभाभृतायाम् । तारुण्याम्भोधिवीचिप्रचयपरिचितैः पक्ष्मलाक्षीविलासै रम्भासौभाग्यभङ्गीसरससुरपुरीगर्वसर्वङ्कषायाम् ॥ १५॥ ॥ इति श्रीवर्गवटीनगरवर्णनम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy