SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ आवारकं वारितवानशेषं, सयत्नरत्नत्रयीशीलनेन । मिथ्यात्वमुख्यांश्चतुरोऽपि हेतूम(न्), समूलमुन्मील्य मुनिप्रभो ! भो ! ॥११।। त्वदर्शनं वाञ्छति भव्यलोको, यथा मयूरोऽत्र पयोमुचः किम् ? । यथा चकोरो ग्रहनायकस्य, रेवाङ्गजो वाऽथ फलात् रसालम् ॥१२॥ इत्थं स्तुतः श्रीविजयप्रभप्रभुः, प्रभुर्मुनीनां जगति प्रतीतः । चतुर्विधे धर्मगणे यथोदयः, तपागणे नाम तथा विधेयम् ॥१३॥ ___ एवमौदार्यधैर्यगाम्भीर्याद्यनेकगुणगणनिकरैः रञ्जितानेकनगरनागरप्रकरैः अनेकलब्धिदत्तवाञ्छितशङ्करैः शिवकरैः क्षेमकरैः स्वकीया(य)मनीषासमानीकृतद्वादशपादैः सकलभव्यलोकाज्ञानध्वान्तनाशनसहस्रपादैः वदनमरीचिसमानीकृतहिमपादैः सदासुप्रसादैः कृतमहाप्रसादैः श्रीवन्धपादैः सौववपुःपरिकरनिरामयतादिसमाचारसूचिकपत्रीमरालबालिका सद्यः प्रसद्य प्रसाद्या । तथा सांवत्सरिकक्षामणापूर्वं मदीया नतिरवधार्योपवैणवम् । तथा तत्रत्य महोपाध्याय श्रीविनीतविजय ग., पं. आनंदसागर ग., पं. धनविजय ग., पं. जसविजय ग., पं. रविवर्द्धन ग., ग. तत्त्वविजयप्रभृतीनां नत्यनुनती प्रसाद्ये । तथाऽत्र ग. लावण्यचन्द्र, मु. सुखचन्द्र, मु. रतिचन्द्र, ऋ. रासाप्रमुखाणां नतिरवधार्या । तथाऽत्र सकलसङ्घस्य नतिरवधार्या । तथा मदुचितं कृत्यं प्रसाद्यम् । तथा कृपावल्लीवितानवृद्धि घनाघनायितव्यं चेति भद्रम् ॥ कार्तिक व. ११ शुक्रे । ॥ पूज्याराध्य- ध्येयत(म)-सकलसकलभट्टारकभट्टारकवृन्दवृन्दारकविभुभट्टारकश्री १७ श्री विजयप्रभसूरीश्वरचरणसरसीरुहाणाम् जीर्णदुर्गे इयं विज्ञप्तिः ॥ -X ला. द. विद्यामन्दिर, अमदावाद सू. ४३४१३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy