SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ (१४) जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति सादडीनगर तो श्रीमेरुचदमुने: पत्रम् स्वस्तिश्रीसदनं जिनेशवदनं स्तौम्यन्वहं सुन्दरं; पापध्वान्तरविं सुखप्रदर्काविं सर्वैनसां ध्वंसनम् । वाञ्छादानसुपर्वरत्नसदृशं श्रीपार्श्वनाथार्हत: (त) आदेयाह्वयमिन्दुतुल्यमहसं सूर्याङ्गसंमिश्रितम् ॥१॥ स्वस्तिश्रिया (यं) यच्छतु पार्श्वनाथो दशावतारोऽञ्जनतुल्यकायः । कृष्णः किमाछोटितमुक्तनागः ( ? ) ॥२॥ स्वस्तिश्रियो भेजुरमुं जिनेन्द्रं, जिनाभिधं श्यामतनुं विचिन्त्य । आस्यादिपानीयरुहान्वितं च वामेयमर्हत्प्रभुमागमेशम् ॥३॥ श्रेयोदगिरं प्रणमज्जनतं, कन्दर्पहुताशनशान्त्यमृतम् । देवेन्द्रनरेन्द्रमुनीन्द्रनुतं, वामातनुजं प्रणमामि मुदा ||४|| पञ्चतत्त्वमयं पञ्च-वर्णात्मकममुं जिनम् । पञ्चपरमेष्ठिरूपं, पञ्चभूतस्वरूपकम् ॥५॥ प्रोक्तमागमविद्यायां, स्वरूपं यस्य चाऽर्हतः । नागादिविषहर्तृत्वं तं वन्दे पार्श्वतीर्थम् ||६|| स्वस्ति श्रीनिकराचितांहिकमलं श्रीपार्श्वनामाधिपं, सेवे सर्वत एव वाञ्छितलसद्दानैकचिन्तामणिम् । भव्याम्भोजविबोधनैकतरणि कन्दर्पवृक्षद्विपं, द्वीपाभं भवनीरधौ जनमहाकष्टच्छिदं नित्यशः ॥७॥ एनं श्रीमन्तं श्रीमन्तं श्रीवामेयममेयमहिमानं सहस्रधामानं प्रणतिउ (त्यु) दयाद्रिशिखरारूढ (ढं) विधाय श्रीध्येयपादपाविते श्रीमति तत्र सादडीनगरतो धरणीतलमिलन्मौलिः संयोजितकरकमलकुड्मलो मेरुचन्द्रस्सविनयं सप्रणयं सोल्लासं सहृल्लेखं त्रिगुणद्वित्वकरणप्रमितावर्त्तवन्दनेनाऽभिवन्द्य यथाविधि विज्ञप्तिपत्रमुपदीकुरुते ॥ Jain Educationa International ९३ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy