SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ९२ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क पर्षदो दीर्घिकायाः प्रभुज्योतिरम्भोभृताया इवाऽम्भोरुहं दर्पण: किं नु दीक्षामृगाक्ष्याः त्रिलोकीजन क्षेमयोगक्षमस्येव धर्माधिपस्याऽऽतपत्रं जय श्रीपताकेव कन्दर्पवीरप्रभुष्णुप्रभूणां प्रदीयेत केनोपमा यच्छशाङ्कः क्षयी भास्करस्तापकारी हरो मुण्डमालामिलन्नीलकण्ठः सुपर्वप्रभुर्गोत्रभित् कैटभारिः स्फुटं कूटतानाटकी विश्वरेताः कुलालक्रियाकर्मठः स्वर्मणिः प्रस्तरः स्वर्द्रुमोऽचेतनः कामधेनुः पशुर्भव्यभावा अमी भाव्यमानास्फुटादीनवा एवमेवं गुणश्रेणिकामल्लिकाननैः पूर्णचन्द्राननैः पूज्यपञ्चाननै: सौवशारीरिकस्वास्थ्यवृत्तान्तपत्री प्रसाद्या शिशोः प्रीतये यज्जने जीवितालम्बनं दूरदेशस्थितस्ये (स्यै) तदेव प्रणामोऽवधार्यस्त्रिसायं शिशोः सोऽपि चाऽनुप्रणामः प्रसाद्यः परेषामृषीणां समासेदुषां संनिकर्षं सपाण्डित्यलक्ष्मीकलक्ष्मीयशोराशिभास्वद्यशोरम्यरामप्रथावद्धनप्राज्ञचूडामणीनां सतत्त्वर्द्धितत्त्वस्फुरत्सत्यसुप्रेमसौभाग्यहेमादिकानां गणीनां विराजज्जयेत्यग्रवर्णद्वया नामिहत्यास्सुमाणिक्यलक्ष्मीक्षमाकृष्णशान्तिस्थिरस्थायिरासादयः साधवः स्वामिपादानमाऽत्रत्यसङ्केन नित्यानघेनाऽभिवन्दन्त आद्यैर्मयि प्रेम कार्यं हितं चोचितं चेतितव्यं जिनेशप्रणामक्षणे स्मार्य ईशैः शिशुस्सह्यमस्मिन्नसभ्यं यदि स्यान्महादण्डकोद्दामपर्णश्रियः पर्णमात्मीयकर्णावतंसीक्रियासुः स्वयं स्वामिन: प्राप्तमेतत्प्रपूर्ति प्रदीपालिकायामिति स्वस्तयः ॥६॥ - खण्ड २ प्रतिचरणमक्षराणां, नवनवतियुतानि नवशतानि स्युः । स महासमुद्रनामा, दण्डक उदयश्रियं दद्यात् ॥ इति श्रेयः ॥ Jain Educationa International [बहारना भागे - ] ॥ पूज्याराध्य ॥ सकलभुवनजनाभिनन्दनीयाभिरामनामधेयभागधेयाप्रतिरूपरूपधेयभट्टारकश्री१०६श्रीविजयप्रभ पं. दर्शनविजयग. पं. सिंघसत्कलेखदण्डक १-९९ -x For Personal and Private Use Only मुनिश्री धुरन्धरविजयजी - सङ्ग्रहगत www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy