SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ८८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ प्रस्फुरदक्षिणः साधुविश्वम्भरोऽभीक्ष्णसर्वंसहो मेदिनीमण्डलस्येव संलक्ष्यमाणोऽपि साक्षात् परंकुर्त(?) तादात्म्ययोगात् समग्रस्य चाऽऽधारभूतो जगज्जन्मिनां जीवनं पावनं पङ्किलानां पुनः सर्वदा नीरजोपायकारी महासाधनं चाऽपि पुण्यौषधीनां सुसीमामृतात्मेव यादोनिवासः परं नैव कीलालमुच्चैस्तदीयैकसारूप्यतः कृत्स्नकृष्णापहारी प्रतापास्पदं दुस्तमःस्तोमहन्ता निवासो वसूनामविस्पन्दनं दुर्दशद्वीपिदृग्भिर्दुरालोकनीयो बृहद्भानुवन्नो परं कृष्णवा कदापीषदन्विष्यमाणोऽपि किन्तु प्रकाशप्रभूष्णुर्भृशं दैत्यदेवाभिधेयो जगत्प्राणभूतो महावीर्यवर्यो प्रबद्धाभिचर्यात्मको मातरिश्वेव नैव द्विजिह्वप्रियो भञ्जनो नाऽपि नैवाश्रयाशस्य साहायिकं सन्दधत् स्पष्टमुट्टड्क्यमानः सुखस्पर्शसम्पादनत्वाविनान्योपकाराय माकन्दरूपः स्फुरत्केशरोऽशोकरागः सुजात्यप्रियालातिभावोऽतिमुक्तः सदा श्रीफलस्फारपुन्नागपथ्यास्थितिभूमिरुड्जातिवन्नो पलाशी कुजातिर्जडो नाऽपि नाऽचेतनस्तत्सजातीयभावेन नु च्छाययाऽऽह्लादयन् मेरुवद् भूमिमध्यस्थवर्ती सदापारिजातः प्रकृत्या सुवर्णाश्रयश्चूलयाऽलङ्कृता भद्रशालस्थितिस्सन्महानन्दनः श्रीविनीताधिवासीव विद्याविलासः सुपर्वास्पदं वंशवद् विस्तरद्धर्मकर्माधिकारी द्वितीयाश्रमस्थायिवन्नाभिजातो विधातेव कल्याणनामार्जुनस्येव चाऽष्टापदावाप्तसिद्धिः क्रियासिद्धसत्पारदस्येव मृत्योविजेता वृषाङ्को गणेशाच॑पादारविन्दः शिवो भूतभर्ता महातेजसो हेतुरीशानवत् कौशिकप्रीतिकृत्पुण्यपाथोधिनाथप्रवृद्धरसाधारणं साधनं कौमुदीकान्तवत् शान्तचेताः सतां दृक्चकोरीकिशोरीसमुल्लासलेलिह्यमानोल्लसच्चन्द्रमश्चन्द्रिकाचारुनिर्यासरूपस्फुरद्रूपलावण्यधाराप्रसारैकभृङ्गारसारायितस्फीतमूर्तिजगद्भाण्डकुक्षिम्भरिक्षीरनीराकरक्षीरपूरप्रतिस्पर्द्धिकीर्तिधुरीणो धराधीश्वराणां युगादौ पुरोगोऽपि योगीश्वराणां समग्रासुमन्मण्डलस्याऽभिगम्योऽन्तरङ्गारिघोरोपसर्गारिवर्गस्य भीमः स्वगोभिर्नभोरत्नवद् भासयन् भव्यराजीवखण्डं कृतक्रोधयोधावरोधो गलद्विक्रियः सक्रियोऽपि प्रजोपक्रियाव्याकृतालङ्क्रियातर्कसाहित्यशब्दानुशास्तिप्रमाणागमौचित्यवादित्रनृत्यक्रियामन्त्रयन्त्रादिनिःशेषलोकव्यवस्थः पथि प्रस्थितः श्रेयसो मन्मथादित्यसून्माथसामर्थ्यपार्थो जनुर्विलसाकालधर्मव्यथादुःस्थितान् प्राणिसार्थान् सदा सुस्थितान् कर्तुकामः पयःपुष्करावर्तपाथोदवन्माथिमन्थाचलोन्मथ्यमानाधिकक्षुभ्यदम्भोधिवद्धीरगम्भीरनिर्घोषया सर्वभाषाविशेषाहितोल्लेखयाऽनुष्ठितप्रष्ठपीयूषपेयारसोत्कर्षसंघर्षया भाषया भाषयामास नैर्ग्रन्थगार्हस्थ्यपन्थानमुत्थापितानेकदुस्तीर्थिकग्रन्थयूथं कृपामन्थरो यः प्रभुस्तं महाराणकं राणपुर्याः चतुर्वक्त्र Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy