SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ८६ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ कान्हर्षयः समर्था, गणयः श्रीसत्यविजयसञ्ज्ञाश्च । भीमविजयाख्यगणयो, नरविजयतपस्विनश्चाऽपि ॥ २९ ॥ हर्षविजयाख्यगणयो, हेमविजयसञ्जकास्तथा गणयः । तत्त्वविजयाख्यगणयो, लक्ष्मीविजयाभिधा गणयः ||३०|| वृद्धिविजयाख्यगणय - श्चन्द्रविजयसञ्जकास्तथा गणयः । कर्पूरविजयमुनयः, शुभविजयाख्यास्तथा मुनयः ||३१|| शैक्षो विवेकविजयः, साध्व्यश्च स्थानवासधृतधृतयः । इत्याद्यः श्रीपूज्य-क्रमकमलं नमति वर्गोऽयम् ||३२|| अत्रत्यो निश्शेषः, सङ्घोऽपि च सकलसङ्घमुकुटमणिः । नमति श्रीपूज्यपदौ, नखमणिदशगुणितकान्तिधरौ ॥३३॥ निद्राशीलेषु जनेष्वलसे परिचारके च रविरुद्यन् । स्फोरयति यथा तेज - स्तथा यतन्ते महोनिधयः ||३४|| तत्क्रमविदां न कस्या- ऽप्युपदेश्यं किमपि पूज्यपादानाम् । विज्ञप्यं नु प्रकटं, नतिसमये भाविभावभृताम् ॥३५॥ लेखोऽयं सद्वृत्तैः, सद्योलिखनोदितैर्विदितभावैः । सृजतु परं सौभाग्यं, विहितः सौभाग्यपञ्चम्याम् ||३६|| इति यः ॥ Jain Educationa International -X For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy