SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ विधाय यद्वक्त्रविधं तदीय-ग्रहे वितन्वन् विधुलम्बनानि । ब्रह्मा भचक्रैः क्षपयन् घटी किं, न ब्रह्मतुल्यं स्मरति स्वचित्ते ॥१७॥ पूर्णीभवन्निन्दुरवैति न स्वं, पूर्णं यदास्योपमितानवाप्तेः । अपूर्णमित्यस्य मनः क्रमेण, तनोः कृशत्वं कुरुतेऽनुतप्तम् ॥१८॥ कलाऽद्वयस्योपनिषत् स्वधीता, यथा यदास्ये च सुवृत्तभावात् । अभाणि नैवाऽस्थिरवृत्तभावात्, तथोद्यतेन द्विजनायकेन ॥१९॥ एवंविधश्रीतपगच्छसूरि-पट्टप्रतिष्ठास्पदतां दधानः । मेधाविनामद्भुतधीधनानां, गुणावलोकाय कृतावधानैः ॥२०॥ अचिन्त्यचिन्तामणिकल्पचित्त-सद्मस्फुटीभूतकलानिधानैः । अत्यच्छगच्छप्रभुताप्रदीप-तैलप्रचाराम्भमतिप्रधानैः ॥२१॥ गलद्विषादैविहितप्रसादै-र्धानुयोगप्रवणे स्ववर्गे । द्विषन्मुखाम्भोरुहशीतपादै-विधूतनिश्शेषमहाप्रमादैः ॥२२॥ स्याद्वादपाथोधितरङ्गभङ्गा-वर्तान्तरुद्भ्रामिततीर्थ्यवादैः । सदा विनेयस्य हृदाऽवधार्या, श्रीपूज्यपादैः प्रणतिस्त्रिसन्ध्यम् ॥२३॥ तथा तत्रलक्ष्मीविजया विबुधा, निजधीलक्ष्मीविलासगोविन्दाः । रविवर्धनाख्यविबुधाः, परिषत्परिपोषिवचनसुधाः ॥२४॥ जसविजयाख्या विबुधा-स्तपगच्छस्वच्छराज्यकृतचिन्ताः । धनविजयाख्या विबुधाः, स्नेहसुधासिन्धुशीतरुचः ॥२५॥ तत्त्वविजयाख्यगणय-स्तत्त्वविदो हेमविजयगणयश्च । साध्वी च प्रेमाख्या, मटूः पटूभूतमतिरन्या ॥२६।। इत्यादिसाधुसाध्वी-वर्गः श्रीपूज्यभजननिरतो यः । नत्यनुनती प्रसाद्ये, क्रमेण तन्नामसमनुसृते ॥२७॥ अत्र- सौभाग्यविजय-विबुधाः, स्वाभिमतन्यायजनितसौभाग्याः । कमलविजयाख्यविबुधाः, विबुधा जसविजयसञ्जाश्च ॥२८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy