________________
जून - २०१३
अविम्लानैर्माल्यैः सुरभितदिगन्ता धनभृतो,
यदीयाश्मच्छिद्रोच्छलितजलसिक्तं किल नभो,
बभौ गङ्गामज्जत्सुरगजकरोत्क्षिप्तजलयुग् । अधस्तादुत्प्रेक्ष्य प्रतिगजसमुज्जृम्भितमिदं,
किमु क्रोधध्वानैर्बधिरयति नद्यां सुरगजः ॥१५॥ यदीयाश्मच्छिद्रोच्छलदतुलपाथोधिलहरी,
चरीकर्त्ति स्वान्ते स्मरणपथपान्थं प्रचलितम् । मरुत्पूरक्रूरक्षुभितशतपातालकलश
प्रसर्पद्वेलौघं गगनतलभेदव्यवसितम् ॥१६॥ सुधाकुण्डादेतत् फणिगरलतीव्रानलयुजः,
नृदेवा देवा वा दधति विभिदां यत्र न मिथः ||१४||
किमुत्फेनं प्रोच्चैरुदितममृतं श्वभ्रविवरात् । यदीयाश्मद्वारोच्छलितजलमुद्वीक्ष्य कवयः,
सृजन्तीत्युत्प्रेक्षालहरिपरिरम्भं स्वहृदये ||१७|| न चापज्यारोपो न च परकृतेरादरभरो,
न संस्कारा वक्रा न च पलफलालम्बनमपि । भुजेनैव स्पष्टं य इह कुरुते मङ्गलमसौ,
Jain Educationa International
न्यायसारतया यत्र, सतामस्ति नवं धनम् । प्रवर्त्तते परं यूनां कामिनीभुजबन्धनम् ॥ १९ ॥ कठिनाः केवलं यत्र, कामिनीनां पयोधराः । जडात्मानश्च वीक्ष्यन्ते, वर्षास्वेव पयोधराः ||२०|| यत्र लीलासु नारीणां रसना मुखरायते । गुणग्रहे पुनः पुंसां, रसना मुखरायते ॥ २१ ॥ कथं मारभयं यत्र, कामिनीनां प्रवर्त्तते । अहो ! मारव्यथाकारि, यत् कौमारहरं वयः ॥२२॥ अनीतिर्यत्र नाऽस्त्येव, नाऽपीतिर्विद्यते क्वचित् । अहो ! तदेतदुभयं दुर्घटं घटतां कथम् ॥२३॥
८१
गुरुः कोऽपि ज्योतिर्विदतिशयि (य?) वान् ॥१८॥
For Personal and Private Use Only
www.jainelibrary.org