________________
जून - २०१३
॥ अथ नगरवर्णनम् ॥
यदीयाः प्रासादा गगनशिखरैस्तुङ्गिममदात्,
सह स्पर्द्धाभाजस्तदुपरि भयत्राण्यदुरिव । समुन्मीलन्त्येषु प्रसृमरतर श्रीसमुदयः,
परेषु श्यामत्वं स इह जयभङ्गव्यतिकरः ॥१॥ यदीयप्रासादेष्वनलस्थितकृष्णागुरुगुरु
स्फुरद्भूमे चञ्चन्मणिकिरणदेवेन्द्रधनुषि । मृदङ्गोरुध्वानस्तनितसुभगे विस्मयरसा
दकाले पाथोदभ्रमममरवध्वो विदधति ॥२॥
मणीमुक्ताहारं दधति मम सारं स्तनतटे,
सुधामेतां मुग्धास्तव मृगदृशो व्यक्तमधरे । समक्षं लोकानामिति कृतविवादो जलनिधि
र्यथावेलं यत्र ध्वनिजनितभीर्वल्गति मुहुः ||३||
अपि त्रासादासादिततरलभावात् स्थितमहो,
पदौ पद्भ्यां बद्ध्वा निजजनशुभादृष्टनिहितम् ।
समादत्ते मत्ते भवति कलहे घर्घररवा
न्न रत्नानां राशिं किमु यदधमर्णा जलनिधेः ॥४॥ रमामिभ्याः सभ्याः सुमधुरगिरः सर्वममृतं,
यदीयं गाम्भीर्यं जगृहुरगृहस्थाश्च गुरवः । अतो यत्राऽम्भोधिः प्रलपति किमप्यस्फुटरवः,
श्रवः प्रीत्यै कस्याऽप्यहह नहि तन्निर्धनवचः ॥५॥ श्रियं दत्त्वा यस्मै तदिह गृहजाममृतिधयो ( मृतधियो) - ल्लसत्प्रेमस्थेमोदधिरधितमूर्च्छद्विरहभी: ।
असौ वस्तु स्वाप्तं वितरति तदस्मै किमनिशं,
न वाल्लभ्यात् सर्वक्षितिवलयवृत्यद्भुततरम् ॥६॥ अहं शङ्के पङ्केरुहजघटजन्मप्रकृतिविद्,
यदङ्के पाथोधिर्लुठति तदयं तस्य जनकः ।
Jain Educationa International
For Personal and Private Use Only
७९
www.jainelibrary.org