SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ श्रीसत्यविजयविबुधाः, विबुधाः श्रीहर्षविजयनामानः । श्रीवीरवीरविजय-मुनयः श्रीलालु(ल?)विजयाख्याः ॥६८॥ तत्राऽत्र हीरचन्द्राख्यो, वृद्धिचन्द्रस्तथा मुनिः । इत्यादयो नमन्ति स्म, तातपादपयोरुहम् ॥६९।। यदत्र लिखितं लेखे, मदीयमतिमान्द्यतः । क्षन्तव्यं तत्क्षमासारै-न्यूनं वाऽधिकमेव हि ॥७०॥ तथाऽत्रत्य सङ्घः प्रणमति । शिशूचितं कार्यं प्रसाद्यम् । तथाऽत्र परिसरे पडधरीपुर मयाणी च नाम ग्राम(मः) द्विस्थानकयोग्यो वर्तते । साम्प्रतं यद्यादेशपट्ट(ट्टे) तन्नाम लिखितं स्यात् तदाऽऽदेशपट्टलिखनावसरे श्रीताता अवधारयन्त्यपि। अन्यच्च- योगोद्वहनादिकविषये बढ्युत्कण्ठा वर्तते । तेनाऽस्मिन् वर्षे तत्कृत्यं भवति तथा विधार्यम् । एतद्विषये श्रीताता एव सामग्रीमिलनप्रभवः । अन्यच्च- श्रीतातचरणारविन्दे मधुकरीभवितुकामः शीघ्रमेवाऽस्मि । तथाऽपि दूरदेशत्वाद् मार्गवैषम्याद् यदि कियन्ति दिनानि लगन्त्यपि । तथा श्रीतातैरेतत्कार्य स्वकार्यांकृत्य येषामादेष्टव्यं भवति तेषामादेष्टव्यमादेश (तेषामादेष्टव्य आदेशः) । क्षेत्रादिसामग्री प्रसाद्या भवति । सा प्रसाद्यैव । नाऽत्राऽर्थे गजनिमीलिका सिंहशौण्डीर्य वा चिन्त्यम् । अथैतत्कार्ये श्रीपूज्यचरणा एव स्रष्टार इति भद्रम् । एँ नमः ॥ श्रीमत्त्रिशलासुतः सौख्यं, तारः परमवीभवः । सततं निर्मिमीतां मे, तारः परमवीभवः ॥१॥ भवभीतिभरात् पान्तु, सकलाः कलायान्विताः । जिनाधीशा जगज्जन्तून्, सकलाः कलयान्विताः ॥२॥ श्रीमज्जिनाधिराजस्य, मतं विभववर्द्धनम् । विश्राणयतु मे नित्यं, मतं विभववर्द्धनम् ।।३।। श्रीमत्सिद्धायिकां स्तौमि, वरदाममदां सदा । हीरालङ्कारसंयुक्तां, वरदाममदां सदा ॥४॥ इतिश्री महावीरस्तुतिः ।। श्रेयोऽस्तु लेखक-पाठ(क)योः ॥ श्रीरस्तु सङ्घस्य ॥ * नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर, सूरत * * Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy