SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ७२ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क यत्र श्राद्ध्यः शुभाचाराः, पात्रदानविधायिकाः । रूपनिर्जितपौलोम्यः, शीलभूषणभूषिताः ॥ २९ ॥ लङ्का शङ्काकुला जाता, चम्पा कम्पमवाप्नुयात् । विशालाऽप्यविशाला हि यत्पुरोऽप्यलकाऽलका ||३०|| देशायातक्रयाणादि-वस्तुविक्रयशालिनी (नि) । श्रीमत्पत्तननगरे, धनि ( न ? ) धान्यविराजिते ॥३१॥ अनन्यरूपसौभाग्य- भाग्यसौन्दर्यशालिनाम् । श्रीमत् (च्छ्री) तातपादानां क्रमन्यासपवित्रिते ॥३२॥ युग्मम् ॥ अथ श्रीमण्डपदुर्गवर्णनम् सदण्डा यत्र राजन्ते, प्रासादाश्चाऽर्हतां सदा । Jain Educationa International - अङ्गुल्या दण्डमिषतो, दर्शयन्ति दिवं किमु ? ॥३३॥ ग्रहणं सूर्य-चन्द्राणां, जडत्वं यत्र वारिणि । दरिद्रतासु दारिद्र्यं, तरुपत्रेषु कम्पता ||३४| द्वैमुख्यं मद्दले यत्र तत्रैव करकुट्टनम् । मोटनं स्फोटनं यत्र, दन्तधावनकर्मणि ॥ ३५ ॥ कुरङ्गत्वं मृगे यत्रो -द्धत्वं समदहस्तिनि । पृषोदरादिषु ज्ञेयो, निपातो यत्र नो पुरे ||३६|| *यत्र निस्त्रिंशता खड्गे, मुष्टिबन्धोऽपि तत्र हि । निर्नामकत्वं यत्राऽसी-न्मत्कुणेषु जने न हि ||३७|| व्यसनं यत्र दानेषु, नीचत्वं यत्र वारिणि । दात्रदेशेषु वक्रत्वं, यत्र पुण्यस्य बन्धनम् ||३८|| यत्र श्राद्धाः सदा दान - विधिविज्ञानशालिनः । जिनेन्द्र धर्ममर्मज्ञाः साधुसेवापरायणाः ||३९|| श्राविका यत्र राजन्ते, सतीजनमतल्लिकाः । जिनधर्मरता नित्यं, शुद्धसम्यक्त्वसंयुताः ॥४०॥ पद्मिन्यो विकसत्कोशा, निर्यद्भ्रमरपङ्क्तयः । स्वकांन्तकरसंस्पृष्टाः, सहर्षाः स्युर्न योषितः ॥ ४१॥ " *इत आरभ्याऽस्य पत्रस्य बहवः श्लोकाः मुनिहीरचन्द्रेण श्रीविजयदेवसूरिं प्रति प्रेषिते पि सन्ति । मुनेरस्य नाम अस्मिन् पत्रे लेखकस्य सहवर्तिषु दृश्यते । For Personal and Private Use Only खण्ड २ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy