________________
जून २०१३
चान्दनास्तरवो यत्र, भुजङ्गगणसंश्रिताः । पण्यस्त्रियः सदाकाराः, भुजङ्गगणसेविताः ॥ १४॥ अशोका यत्र मोदन्ते, योषिच्चरणताडिता: । कामिनो यत्र मोदन्ते, योषिच्चरणताडिताः ॥१५॥ इभ्या यत्र पुरे नित्यं, कमलाबद्धमानसाः । समदा यत्र रोलम्बाः, कमलाबद्धमानसाः ॥ १६॥ जलहर्यो विराजन्ते सकुम्भाः प्रक्षरज्जलाः । हस्तिन्यः समदा यत्र, सकुम्भा: प्रक्षरज्जलाः ॥१७॥ दानिनो यत्र शोभन्ते, कृतोन्नतकराः सदा । मदोद्धता गजा यत्र, कृतोन्नतकराः सदा ॥१८॥ सुधावदाताः प्रासादाः, सुवर्णकलशाङ्किताः । यत्र तीर्थकृतां रेजुः, कैलासस्याऽनुजा इव ॥१९॥ ध्वस्तान्धकारैः कलशैः, प्रासादशिखरस्थितैः । निशा-दिवसयोर्भेदो, लक्ष्यते यत्र नो जनैः ॥२०॥ गवाक्षतस्थुषीणां च, दृष्ट्वा चपलचक्षुषाम् । वितर्कयन्ति वक्त्राणि शतचन्द्रं नभस्तलम् ॥२१॥ चञ्चलत्वमपास्य श्रीः, धनिगेहेषु सर्वदा । चकार वासं चतुरा, मन्ये पर्यटनच्छलात् ॥ २२॥ कामुकीकटिदेशेषु, कार्यं स्वाभाविकं सदा । कार्यं कुचमुखेष्वेव तत्रैव करपीडनम् ॥ २३ ॥ निरालम्बत्वमाकाशे सङ्कोचः पद्मिनीदले । दण्डो देवालये यत्र, बन्धनं कुसुमस्रजि ॥२४॥ पारदे मारणं यत्र, कटुता ज्वरिणां मुखे । यत्र म्लानिः सुमे ख्याता, क्षेत्रे यत्र निरीतिता ॥ २५ ॥ मथनं यत्र दधिषु, मारिः सारिषु गीयते । परापवादे मूकत्वं, काठिन्यं शकलेऽश्मनः ॥२६॥ वियोग: कर्मणां यत्र, तापस्तपनमण्डले । वक्रत्वं यत्र शङ्खे स्यात् (द्), लघुता तूले सर्वदा ||२७|| श्रद्धालवः सदाचाराः, पापव्यापपराङ्मुखाः । गुरु-देवरता नित्यं, द्वादशव्रतसुव्रताः ॥२८॥
2
Jain Educationa International
For Personal and Private Use Only
७१
www.jainelibrary.org