SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ७० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ स्वस्तिश्रीसदनस्य यस्य जगतीभर्तुर्भवाम्भोनिधेः, पातात् त्रातुरुदारवृत्तिमनसा दातुर्विशां शासितुः । चूला मूर्ति चकास्ति विश्वनयनप्रेमोपदादायिनी, मन्ये मोहनगुल्मिनी भ्रमरवत् श्यामा जगत्कार्मणम् ।।७।। यः स्वामी जगदत्ति(ति)तप्तिहरणे प्रावृट् घनासारवन् मिथ्यात्वैकतमः प्रणाशनविधौ यो भानुवद् भासते । शीर्षे यस्य फणीन्द्रसम्मदकृतस्फूर्जत्फटाडम्बरो, जीयात् पार्श्वजिनप्रभुस्त्रिजगतीत्राताऽनुशास्ताऽपि च ॥८|| स्वस्तिश्रीसदनं समग्रसुखदं कल्याणमालास्पदं, त्रैलोक्याभ्युदयप्रदं कलिमलप्रक्षालनं पावनम् । सर्वाभीष्टपरम्परावितरणे चिन्तामणि प्राणिनां, वन्दे भक्तिपुरस्सरं जिनवरं श्रीपार्श्वपार्वं जिनम् ॥९॥ स्वस्तिश्रीयुतपादपद्ममतुलं श्रेयःश्रिदं देहिनां, गीर्वाणैर्नरपुङ्गवैः स्तुतमिति ध्यातं च योगीश्वरैः । भव्यानां भवभूरितापहरणं सिद्धौ दृढप्रश्रयं, वन्दे भक्तिपुरस्सरं जिनवरं श्रीपार्श्वपार्वं जिनम् ॥१०॥ मेरुर्मोदयुते सुरेश्वरगणे यस्य जन्माभिषेकं, निर्मायं विहितैकचन्दनयुतैः स्नात्रवारिप्रवाहैः । प्राप्तः पीतगुणं ततो गिरिरसौ काञ्चनीयो जनोक्तिः, श्रीसिद्धार्थधराधरान्वयमणिः भूयात् स वः सिद्धये ॥११॥ एतांस्तीर्थपतीन् नतामरपतीन् नत्वाऽतिभक्त्याऽन्वहं, कन्दर्पोत्कटसर्पदर्पदलनव्यापारनागान्तकान् । मुक्तिस्त्रीकुचकुम्भकुङ्कमरसानानन्दकन्दाङ्करान्, दुष्टव्याल-मृगारि-कुम्भि-रणभीविध्वंसकानादरात् ॥१२॥ अथ श्रीतपोगणगगनमणि-भट्टारक-श्रीविजयसिंहसूरीश्वरचरणविन्यास पावनीकृतश्रीराजत्पत्तननगरचरवर्णनम्यत्राऽऽरामाश्च रामाश्च, सपुष्पाः फलमण्डिताः । अदृष्टसूर्याः सरसाः, पत्रालीतिलकाङ्किताः ॥१३।। टा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy