________________
जून - २०१३
६७
तत्र- कल्याणमल्लोर्वीराट्, प्रजाः पाति वज्रिवत् ।
तत्सूनुवत् क्षितौ ख्यातो, यज्जयो द्विट्क्षयोद्भवः ॥२१॥ यत्र- धनदाश्च कुबेरा न, महारम्भा न पापिनः ।
पुण्यजनाः पलादा नो, ईश्वरा न विषादिनः ॥२२॥ अस्माद् विस्मयदानन्द-समुद्यत्पुलकाङ्कितः । नम्रो मूर्ध्नः स्पृशन् भूमि, भालस्थलकृताञ्जलिः ॥२३।। सार्वभौममितावर्ते-रभिवन्द्य श्रीसद्गुरून् । भक्त्या वितनुते ज्ञप्तिं, मेघचन्द्राभिधः शिशुः ॥२४॥ युग्मम् ॥ प्राच्याद्रिताम्रचूडस्य मूजि _ _ _ ते रवौ । सहर्षपर्षदि स्त्रीभि-विहितस्वस्तिकस्थितौ ॥२५।। व्याख्या श्रीशान्तिनाथस्य, चरितस्य जिनेशितुः । सनन्दि श्राद्धवन्द(वृन्द)स्य, द्वादशव्रतरोपणम् ॥२६॥ साधुसाधुसमारब्धा-ऽध्ययनाध्यापनादिकम् । वर्धते सौकृतं कर्म, श्रीमत्तातप्रसत्तितः ॥२७॥ त्रिभिविशेषकम् ।। अष्टाहिका(ह्निका)ष्टपत्राढ्यं, सत्तपः श्रेणिकर्णिकम् । जिनार्चावि[क]सत्कोशं प्रभावनोरुकेसरम् ॥२८॥ सङ्घवात्सल्यपौष्येष्टं, कल्पव्याख्यामधुश्रितम् । भूरिवित्तव्ययामोद-मत्तार्थिमधुकृद्गुणम् ॥२९॥ धन्याधत्तमहापुण्य-सौरभ्यस्पृष्टविष्टपम् । निःशेषतीर्थकृल्लक्ष्मी-विलासैकनिकेतनम् ॥३०॥ सर्वसत्त्वदयानीर-पूरेऽर्हन्मतमानसे । गुरुज्ञानमृणालस्थं, पर्वपर्युषणाम्बुजम् ॥३१॥ भजति स्म भजत्येतत्, सन्ततोत्फुल्लसम्पदम् ।
सश्रीकतातपादैक-सहस्रकिरणोदयात् ॥३२॥ किञ्च-श्रेयोवल्लीवितानैका-म्भोदसोदरमूर्तये ।
विजयदेवसूरीन्द्रत्रिजगद्गुरवे नमः ॥३३।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org