________________
६६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
सर्वशर्मकमलाकरमुद्रा-विड(द्र?)वैकतरुणारुणबिम्बम् । स्वर्णवर्णवपुषं सुषमधि, वैश्वसेनिमभिवन्द्य तमद्य ||७|| यत्रार्हत्सौधशृङ्गस्थ-सौवर्णकलशोपधेः । . दृष्ट्वोद्गच्छन्तमादित्यं न [च]क्रा विरहं ययुः ॥८॥ यत्र प्रासादशिखरा-रूढकुम्भा बभुर्भृशम् । पू:पुरन्ध्याहिता दीपा, मन्ये मुक्त्यध्वदर्शकाः ॥९॥ यत्रार्हच्चैत्यमूर्धस्थ-स्वर्णदण्डच्छलादिव । तर्जन्युदञ्चिता पुर्या, नृणां मोक्षाध्वदर्शने ॥१०॥ अर्हच्चैत्यमरुत्कम्प्र-केतुच्छायाशनात् सदा । सर्पान् सर्पाशना यत्र, नाश्नन्ति निहतोद्यमाः ॥११॥ शुद्धस्फटिकहाणि, मिश्राणि शशिरश्मिभिः । यामिन्या _ _ _ _ ते, कटरे कज्जलध्वजैः ॥१२॥ पद्मरागनिबद्धोर्वी-तलसङ्क्रान्तमूर्तयः । स्फुटोपमा _ _ पौरा, लभन्ते यत्र सुश्रियः ॥१३॥ यत्र कासः सरित्तीरे, स्फुटदूषण]तापणे(?) । आकिञ्च _ [न्यं] व्रतिव्राते रुद्रे रुद्रत्वमाश्रितम् ॥१४॥ दोषाकरत्वमेणाङ्के, राजहंसे सरोगता ।
खले खलत्वमाभाति, न हि पौरजने क्वचित् ॥१५॥ युग्मम् ॥ किञ्च- सिन्धुना स्वसुता रत्नान्यद्रिणा रोहणेन च ।
सुवर्णं स्वर्णगिरिणा, रजतं रजताद्रिणा ॥१६।। औदार्यं कल्पवृक्षेण, रूपं मकरकेतुना । जगद्गुरुपदोपास्ते-टुंढौके यन्नृणामहो ! ॥१७॥ अतुलबलधराणां नम्रभूमीश्वराणां,
मुकुटकुटविनिर्यद्रत्नगोक्षीरपूरैः । स्नपितचरणपद्यैः श्रीगुरूणामुदारै
निहतनिखिलविघ्ने तत्र सर्वार्थनिघ्ने ॥१९॥ किञ्च- चर्मन्वतीसरित्तीरे, पुरं भृगुपुराभिधम् ।
समस्त्यसमशस्यं श्री-समृद्धभवनान्तरम् ॥२०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org