SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ निरन्तरं भक्तिभरेण संनमत्तनूमतां याप्यतमान्यघानि । जरीहरीतीह यदीयदर्शनं यथा रजांसि प्रलयानिलोत्करः ॥५२।। विपक्षवर्गादवमाशयाच्च, पराभिभूतिं लभते जनो न । पक्षं श्रितः साधुपतेः शकुन्तो, यथोद्धराद् बन्धुरसिन्धुरारेः ॥५३।। कृपासुधापूर्णदृशो जनोऽयं, यस्येक्षणात् स्यान्नवपल्लवश्रीः । प्रदुष्टदोषानलदूषितोऽपि, यथा पयोदस्य जलेन शैलः ॥५४।। सदोषजन्योऽपि मलीमसोऽपि, भवेज्जनोऽयं जगदर्चनीयः । यं संश्रितः स्यान्मृगनाभिजेव, गुणं श्रिता सौरभमेकमुद्धम् ॥५५।। काष्ठं सुरद्रुः सुरसौरभेयी, पशुः पुनश्चिन्तितरत्नमेतत् ।। विश्वे दृषत्खण्डतया प्रतीतं, ततः श्रितः श्रीगुरुमत्र लोकः ॥५६।। शृङ्गारभासुरविभाभरभूषिताङ्ग्यः , प्रातः समेत्य पुरतश्शमिपस्य यस्य । कुर्वन्ति कोमलकराः कमलानिवास-सत्स्वस्तिकादिरचनांसधवा मृगाक्ष्यः ।।५६(५७)।। ता एव तत्र समये किल संमुखीना, वर्धापनं विदधति स्फुटमौक्तिकौघैः । तद्वीक्ष्य वक्ति निपुणो रवितापताम्य-दभ्रं विहाय वदनं श्रयते भचक्रम् ॥५८|| केचित क्रियानिपणतामभजञ्जगत्यां, केचिच्च वाड्मयपयोनिधिलब्धमध्याः । केचित् परोपकृतिकारणमत्र किन्तु, सर्वार्थकृच्छुभनिधिस्तपगच्छनेता ॥५९।। .......... .... । दौःस्थ्यव्यथाध्वंसनदेवभूमी-रुहानुवादैर्दलितप्रमादैः ॥६०।। माद्यन्मनोभूमथनैकपादैः, सुनीतिरीतिव्रततिव्रजाब्दैः । श्रीतातपादैः प्रहतावसादै-निरन्तरं निर्मितसुप्रसादैः ॥६१।। तैः स्वस्फुरत्तनुनिरामयतादिवाच्य-रुच्या मनोघनसुहृत्प्रमदप्रदात्री । कार्या प्रसादविषया स्वशिशोः प्रसद्य, पत्री पयोदपद(ट)ली त्वरितं प्रसन्नैः ॥६२।। अर्हन्मताम्बुजनिशारमणैस्त्रिसायं, कारुण्यपुण्यकरणप्रवणैः प्रणामः । श्रीकान्ततातचरणैघृणयाऽवधार्य भक्त्या नमन्निजविनेयकणस्य शश्वत् ॥६३।। श्रीतातपाददिविषन्मणिमञ्जुसेवा-लब्धेशताम्बुधिसुतासुविलासभाजाम् । दुर्वादिगर्वतिमिरप्रकरप्रभेद, चण्डत्विषां गतरुषां विमलाङ्गभासाम् ॥६४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy