________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(९-१०) श्रीमेघचब्दमुनेः पब्रव्यम्
(१) श्रीविजयसेनसूरिं प्रति प्रेषितं पत्रम् श्रिये स वः सप्तमतीर्थनेता, यस्यांऽह्रियुग्मश्रयणादवाप । यः स्वस्तिको मङ्गलतामना, सर्वासु सन्मङ्गलमालिकासु ॥१॥ रेजुः पञ्चफणा यस्य, शीर्षे पृथ्वीभुवः प्रभोः । मन्ये सुमतयः पञ्च, पञ्चाऽऽचारा इमेऽथवा ॥२॥ अष्टाभिर्भवसम्भवैर्नवनवस्नेहैकपाशैर्दृढं,
बद्धामिन्दुमुखीं विहाय तृणवद् राजीमतीमादरात् । दीक्षां क्षीणभवोऽभजच्छिववधूसंयोगसद्भूतिकां,
शङ्खाङ्कः स शिवासुकुक्षिसरसीहंसः शिवायाऽस्तु नः ॥३॥ यस्मिन् दुष्टकलौ गताखिलमणीयन्त्रमन्त्रप्रभावे,
गोमांसाशनदुष्टमुद्गलदलोद्वासिताशेषदेशे । सर्वत्र प्रचुरप्रभावमहिमाविस्तारमाप्तस्तदा,
स श्रीपार्श्वविभुर्जगत्त्रयजनानन्दकन्दाम्बुवाहः ॥४॥*
स्वस्तिश्री: किलिकिञ्चिताद्भुतसुखान्यास्वादितुं स्वेच्छया,
श्रीमत्पार्श्वजिनेश्वरे प्रणयिनीभावं प्रपद्य स्वयम् । आशिष्टे(श्लिष्टा?) हरियोगवा(का?)तरतया क्षीरे पयोवत् तथा,
नाम्नोऽपि प्रवराक्षरावलिरलं जाता यथा तन्मयी ॥१॥
* इदं श्लोकचतुष्टयमनेनैव मुनिना लिखिते ३०तमे पत्रेऽप्यादौ समस्ति । अत्रस्थपञ्चमश्लोकस्य आदौ 'स्वस्तिश्रीः' इत्युल्लेखं श्लोकस्य पुनः प्रथमक्रमाङ्कदानं च दृष्ट्वा संभाव्यते यत् पत्रमिदमित एव आरभ्यते ।आदौ श्लोकचतुष्टयं सङ्ग्रहार्थमेव लिखितं स्यादिति भाति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org