________________
जून - २०१३
सुरगिरिबन्धुरधीरिम-धीरा गणिवीरविजयनामानः । नन्दितसज्जनमानसः(स-) सुनन्दयो नन्दिविजयाह्वाः ॥१०४॥ वरलब्धिलब्धिविजया गणयो गणिशान्तिविजयनामानः । वरमतिमतिविजया स-द्विद्या विद्यादिविजयसाधुवराः ॥१०५।। सत्तेजस्तेजविजया मुनिमणयो रत्न-रामविजयाश्च । राजोदयराजविजया विवेकविजयादयो यतिनः ॥१०६।। इत्यादि वाचंयमकुञ्जरेन्द्रान्, वन्देऽनुवन्दे च यथानुयोगम् । श्रीतातपादक्रमपुण्डरीक-सेवारजस्तत्परचञ्चरीकान् ॥१०७|| अत्रत्यरायमल्ला गणयः शान्तिविजयवीराख्याः । भीमविजय-सीहविजयौ, सहर्षहर्षादिविजयमुनिः ॥१०८॥ इत्यादिकाः संयति-संयतिन्यः सद्भक्तिभूषाभरभूषिताङ्गाः । अहर्निशं श्रीगुरुपादपाद-पद्मप्रणामप्रवणा भवन्ति ॥१०९।। इहत्यसङ्घः शमिशेखराणां, भक्त्या प्रणामं तनुते त्रिसायम् । वाचंयमक्षोणिधनाभिधान-नमामि तीर्थाधिपतीनिहत्यान् ॥११०॥ मास्याश्विने दिग्प्रमिते दिने च, चन्द्रावदाते भृगुराजपुत्रे । विनिर्मितालङ्कृतिरम्यमूर्तिः पत्री हरस्त्रीव तनोतु भद्रम् ॥१११।। ॥ इति श्रीविजयसेनसूरिलेखः समाप्तः ॥ सं. १९७० चैत्र सुदि ११, वृस्यवार ।।
-xकान्तिविजय शास्त्रसंग्रह - वडोदरा
नं. २०९०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org