SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ मासा-ऽर्द्धमास-दशमा-ऽष्टक-षष्टकादि-नानाप्रकारतपसां तपनं नितान्तम् । निःशेषदोषविषपेषणनागमन्त्र-यात्राकृतिः सकलतीर्थकरालयेषु ॥५०॥ इत्यादि पर्वसुकृतैकसमस्तकृज्यं(त्यं?) प्रार्वतत प्रचुरभीतिविवजितं यत् । तत्राऽभवद् विजयसेनमुमुक्षुमुख्य-प्रख्याभिधानगणनं गुणवन्निदानम् ॥५१॥ अथ गुरुवर्णनम् - श्रेयःश्रियां सततपङ्क्तिरिव स्फुरन्ती मूर्तिः सुधाशनलतेव समुल्लसन्ती । आपादिताभिमतशस्तसमस्तवस्तु-र्जीयादसौ विजयसेनशमीन्द्रचन्द्रः ॥५२॥ गृहे गृहेऽपि क्रमणैकशीलां, सन्तः सतीमाहुरमुष्य कीर्तिम् । प्राहुः परेषामपि मन्दिरान्त-रनिःसरन्तीमसती च कीर्तिम् ॥५३।। गणीन्द्रकीर्तिर्गणिकेव मन्ये, साधारणा ते बहुवल्लभाऽपि । तथाऽपि सा शीलवतीति लोकै-रूचे यशः पुण्यनिबन्धनं हि ॥५४|| यदीयपीयूषरसाभिषिक्त-कर्पूरपूरद्रवकान्तकीर्त्तिः । स्पर्धी दधानोऽजनि तारकेशो निधिः सुधानामपि तारकेशः ॥५५॥ मुनीन्द्र ! मन्ये भवदीयकीर्ति, शीतामशीता(तां) द्विषतां च कीर्तिम् । न चेत् कथं सा भवतां च तेषां शुभाशुभानां जननी जनानाम् ॥५६।। यथाऽप्यरामा मुनिरामकीर्त्ति-रानन्दयामास सतां मनांसि । रामाऽपि न त्वद्विषतां च कीर्ति-मन्यामहे चित्रमिदं महीयः ॥५७॥ यथाऽप्यकान्ता यतिकान्तकीर्त्तिः, सुखं सृजन्ती कृतिनां मनस्सु । कान्ताऽपि कीर्त्तिर्द्विषतां च नैवं, मन्ये महच्चित्रमिदं मुनीन्द्र ! ॥५८|| सङ्गं सृजन्ती हृदयैः परेषां, सती तथाऽपीह निरीहकीर्त्तिः । कीर्त्तिर्द्विषामन्यहृदा निषङ्ग-मसन्दधानाऽप्यसती यतीश ! ॥५९।। यदीयकीर्तिः सुरभीचकार मुखाम्बुजन्मानि सुदृग्जनानाम् । तत्स्पर्द्धयेव द्विषतां च कीर्त्ति-श्चक्रे तदास्यान्यसुगन्धभाञ्जि ॥६०॥ सर्वंसहामण्डलमासमुद्रं बभूव सौरभ्यभराभिरामम् ।। योगीन्द्रकीर्त्या जगदेकगत्या, विना त्वदीयद्विषतां मुखानि ॥६१॥ कीर्तिं व्रतीशध्वज ! तावकीना-मीशं श्रितामभ्रसरिच्छलेन । निरीक्ष्य तद्बोहधियेव काल-कूटच्छलात् तं द्विषतां च कीर्ति(:) ||६२।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy