________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
गवेषितुं तच्छलमौषधीशो मुखान्न गन्धो मृगमात्मभृत्यम् । किं प्राहिणोदङ्कमिषात् कुरङ्गः संलक्ष्यते तेन यदंहिपीठे ॥१२॥ अपाकुरु त्वं जगदर्तिहर्ता, जगत्प्रसिद्ध स्वकुरङ्गनाम । विज्ञप्तिकां कर्तुमितीव यस्य, मृगं(गः) शि(सि)षेवे पदपद्मपीठम् ॥१३।। स्वस्तिश्रियं यत्पदपद्मसङ्गं, वितन्वतीं वीक्ष्य कलातिरेकाम् । इतीव भेजे भगवन्तमङ्क-च्छलेन तां प्राप्तुमनाः कुरङ्गः ॥१४।। कलङ्कमुक्तं कलयाऽभिरामं, विस्तारयन्तं कुमुदां प्रकाशम् ।
यथा द्वितीयोदितशर्वरीशं, प्रणम्य तं सर्वविदामधीशम् ॥१५॥ अथ नगरवर्णनम् - पदे पदे यत्र वसन्ति लोकाः, सूर्यप्रकाशा इव रागभाजः । प्रबुद्धपद्मावलिराजमाना रेजे घुरं राजधनाभिधानम् ॥१६॥ मित्रोदये प्रीतिमता: प्रधानां(ना) दोषागमे निर्मितबाढवैराः । पद्मानुरागाः सुविलक्षपक्षा वसन्ति कोका इव यत्र लोकाः ॥१७॥ अन्यूनराजोदयराजमानाः, समुद्रलीभां(लां) परिवर्द्धयन्तः । कृतप्रमोदाः कुमुरा वसन्ति, शशिप्रकाशा इव यत्र लोकाः ॥१८|| अष्टापदालड्कृतमध्यदेशाः सुवर्णगात्रोचितभूमिभागा(:)। जम्बूच्चशाखा निवसन्ति जम्बु-द्वीपप्रदेशा इव यत्र लोकाः ॥१९॥ प्राप्तप्रसादाः सवितुनितान्त-निर्मापितैकक्रमकेलिभाजः । केलि कलानां कलयन्ति नित्यं, द्विजेन्द्रबिम्बा इव यत्र लोकाः ॥२०॥ विस्तारयन्तो बहुदानधारां, भूमण्डले भद्रकजातिभाजः । स्वस्वामिनां शालिसुखं सृजन्तो, भान्ति द्विपेज्जा(न्द्रा) इव यत्र लोकाः ॥२१॥ प्रोद्भूतपुण्याङ्करपूरिताशाः, प्रधानसम्प्राप्तसमीहितार्थाः । प्रबर्हबर्हावलिभिर्महार्हा वसन्ति कल्पा इव यत्र लोकाः ॥२२।। विशालशाखाः सवयःकलापाः, पर्युल्लसन्तः सुमनःसमूहैः । छायाभिरामाः सफलाः विपत्रा वसन्ति वृक्षा इव यत्र लोकाः ॥२३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org