________________
जून
-
२०१३
( ८ )
राजधनपुरस्थित श्रीविजयसेनसूरि प्रति पं. श्रीमे रुविजयलिखितं विज्ञप्तिपत्रम्
Jain Educationa International
स्वस्तिश्रियां सन्ततये स देवः, श्रीविश्वसेनक्षितिपालपुत्रः । प्रशान्तये सन्तततामसानां, त्रैलोक्यमध्येऽजनि यो मृगाङ्कः ॥१॥ जेता जगज्जैत्रयशोधरिष्णो-र्मदीयशत्रोः करिणां च शत्रोः । इति प्रहृष्टो हरिणीतनूजो सेवे यदीयं पदमङ्कदम्भात् ॥२॥ यत्सेवनेनाऽपि मृगीतनूजो, मृगीदृशामाप दृशा समत्वम् । वनेचरोऽपि प्रगुणैकधाम्ना (म्नां), न निष्फलाऽऽस्तां महतां हि सेवा ||३|| कस्तूरिका यवदनानिलेन पराजिता यत्श (च्छ ) रणं गता किम् ? | यस्याऽङ्कदम्भेन मृगेण साक- मितीव वक्तुं न हि मेऽस्ति दोषः ||४|| स्वस्तिश्रियो यद्वदनारविन्दे मत्तोऽधिका न्यूनतमा इतीव । विलोकितुं कैरविणीहृदीशो मित्रं मृगं प्रेषितवान् यदन्ते ||५|| एणीदृशामायतलोचनाभ्यां जितो ( ता ) ऽहमेनं हर मे कलङ्कम् । सा प्रेषयामास सुतं यदन्ते यदङ्कदम्भादिति वक्तुकामा ||६|| अस्मादृशां दुर्दमदन्तिवैरिव्यधादितस्त्वं जहि भीतिमीशः (श!) । किं प्रेषयामास मृगी तनूजं विज्ञप्तु (?) कामेनि (ति) द्म(य)दङ्कदम्भात् ॥७॥৷ यत्पादसेवाजनितेन कर्मणा, लब्धं मृगेणाऽऽशु मृगाङ्कमण्डलम् ।
"
नो चेत् कुतस्ताविषवासिवाञ्चिते, तत्र स्थितिस्तस्य सुखाय सोऽस्तु ते ॥८॥ कुर्वन् विवादं तव लोचनाभ्यां पराभिभूतो हरिणीतनूजः । इतीव सेवारसिको बभूव, यदङ्कदम्भेन यदीयतीरे ||९|| स्वस्तिश्रियं न्यूनतमां मदीयां, यदाननेऽन्यूनतमां च दृष्ट्वा । आदातुमेतामिति कौमुदीशो मित्रं मृगं प्रेषितवान् यदन्ते ||१०|| सन्धि विधातुं भवदाननेन, समं मृगं प्रेषितवान् मृगाङ्कः । स्वं सेवकं तेन जितः स तेन शिश्राय पादाम्बुजमङ्कदम्भात् ॥११॥
४९
For Personal and Private Use Only
www.jainelibrary.org