________________
१८२
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
त्रैलोक्यव्याप्तसच्छलोकाः, श्रीजसविजयायाः । श्रीमत्तत्रभवच्चारु-शिष्टिप्रवर्तनोच्चलाः ॥७२।। [अनुष्टुप्] भास्वत्तमप्रतिभाभाः, श्रीरविवर्धनाह्वयाः । श्रीपूज्यपादपाथोज-सेवाहेवाकमानसाः ॥७३॥ तत्त्वातत्त्वविमर्शज्ञाः, श्रीतत्त्वविजयाभिधाः । श्रीपूज्यपादपादाब्ज-मकरन्दसितच्छदाः ॥७४।। अन्ये येऽज्ञातनामानः, श्रीपूज्यचरणान्तिके । नंनमि चाऽनुनंनमि, यथायथं विपश्चितः ॥५॥ सौवाङ्गबर्हातिनिरामयत्वतत्, काम्यप्रमेयाम्बुभरैः सुमांसलम् ।
लेखाम्बुदं मच्छयशैलशेखरं, सम्भूषयन्तं तमवेक्ष्य सादरम् ॥७६|| [इन्द्रवंशा]
मत्स्वान्तमञ्जिष्ठमयूर एषः, बंहिष्ठमामोदभरं प्रदध्यात् । तं तं यथा श्रीवरपूज्यपादैः, सद्यः प्रसद्याऽऽशु तथा प्रणेयम् ॥७७||
[उपजातिः] अत्रत्याः साधवः सर्वे, पुण्यसुन्दरसंज्ञकाः । ज्ञानसुन्दरनामानो, महिमासुन्दराभिधाः ॥७८|[अनुष्टुप्] जयसुन्दरनामान-स्तिलकसुन्दराह्वयाः । गङ्गसुन्दरनामानः, सौभाग्यसुन्दराह्वयाः ॥७९।। श्रीमत्तत्रभवत्पाद-पाथोजयामलं मुदा । त्रिसायं नंनमत्युच्चैः, प्रोल्लसन्मानसाम्बुजाः ॥८०॥ श्रीमत्कौमुदमासस्य, लेखोऽलेखितमां मया । वलक्षेतरसप्तम्या-मिति स्तान्मञ्जु मङ्गलम् ॥८१।। श्रीः ॥
॥श्रीपूज्याराध्यध्येयतमसकलसकलभट्टारकमौलिपेशलशतदलमाल्यत्तम
क्रमकमलयमलभट्टारक श्री१०५ श्रीविजयप्रभसूरीश्वरचरणसरसिजानामयं विज्ञप्तिलेखः ॥ श्रीमज्जीर्णपुरे ॥ पं० पुण्यसुन्दरलेख: ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org