________________
जान्युआरी - २०१३
१६१
सर्वप्रज्ञालमुख्यश्री-अमरविजयाभिधाः । नयैकधनसमृद्धाः, श्रीनयविजया बुधाः ॥१०८॥ [अनुष्टुप्] यशोधनधुराधुर्या, धर्मसाचिव्यसत्कलाः । दधते विधिवद् ये श्री-यशोविजयपण्डिताः ॥१०९॥ प्राप्तरूपप्रभूतश्री-रामविजयकोविदाः । चातुर्यवर्यविबुधाः, श्रीधन्यविजयाभिधाः ॥११०॥ सौभाग्यभाग्यैकसीमा, सौभाग्यविजयो गणिः । चतुरः सर्वमुनिषु, चतुरविजयो गणिः ॥१११॥ श्रीतातचरणोपास्ति-स्वस्थीकृतमनाः सना । साक्षरः सुतरां दक्षः, सौभाग्यविजयो गणिः ॥११२।। इत्यादिसाधुसाध्वीनां, श्रीतातपदसेविनाम् ।
प्रसाद्ये तातसत्पादैः, सन्नत्यनुनती उभे ॥११३।। तथाचगणयो हर्षविमलाः, प्रेमविमलसव्रती । अमराद्विमलः साधु-या॑याद्विमलको मुनिः ॥११४॥ तथा नरर्षिः सवृषः, स्थानस्थायी ऋषिर्वरः । रङ्गाद्विजयकः साधु-रुद्यमी रटनापरः ॥११५।। इत्यादयश्च समुदो, मुनयो विनयान्विताः । नंनमन्तितरां तात-चरणान् भृशमादरात् ॥११६॥ शिशोः प्रणामः सुतरां त्रिसायं, सदाऽवधार्यश्च कृपाऽपि धार्या । तथा पुनः सार्वनतौ निजान्तिषत्, स्मार्यो भृशं पूज्यवरैः कृपापरैः ॥११७।।
[उपजातिः] श्रीतातचरणाम्भोजं, नंनमीतितरामरम् । विशेषहर्षभूच्चेता, अमरविमलश्शिशुः ॥११८॥ [अनुष्टुप्]
तथात्र सा. मनजी भीखारीदास सं. धर्मदास सं. हंसराज सं. मनजी नाथु सा. भोगी रहीदास सा. भीमा सा. पूरण सा. लूणजी प्रमुखसकलसङ्घः श्रीपूज्यविमलचरणयुगलं नमति स्मेत्यवधार्यम् ।। तथाच शब्दार्णवकादिदौष्ट्यं, व्यासङ्गसङ्गादपि रङ्गतो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org