________________ जून - 2012 आहोस्विदनुमानेन उदश्चिदागमेनोतोपमानेन किंवाऽर्थापत्त्येति विकल्पपञ्चतयी विषयपञ्चतयीव त्रिभुवनजनमनांसि क्षोभयन्ती भवत्पुरः प्रगल्भते / तत्र न तावत् प्रत्यक्षलक्ष्यो भवति सर्वज्ञः / विद्यमान एव हि पदार्थः प्रत्यक्षलक्ष्यतामाक्षिपति / सर्वज्ञस्तु व्योमारविन्दवदविद्यमान एव / तन्न तेन लक्ष्यते विचक्षणैरपि / नाऽप्यनुमानेनाऽनुमीयते / अनुमानं हि धूम-धूमध्वजयोरिव लिङ्ग-लिङ्गिनोरविनाभावग्रहणे सति प्रवृत्तिमातितांसति / न चाऽत्र सर्वज्ञसद्भावसाधने(साध्ये?)नाऽविनाभूतं किमपि लिङ्गमुपलभ्यते / ततः तदप्युदासीनमेव / नाऽप्यागमेनाऽवगम्यते सर्ववेदी / आगमा हि सर्वेऽपि परस्परविरुद्धार्थाभिधायिनः / क्वाऽपि सर्वज्ञः स्थाप्यते, क्वाऽपि सर्वज्ञ उत्थाप्यते / ततः को नामाऽऽगमः प्रमाणीक्रियते ? तन्नाऽऽगमः सर्वज्ञाभ्युपगमहेतुः / नाऽप्युपमानं सर्वज्ञसत्तापरिज्ञानं कर्तुमुत्सहते / यतः कथञ्चिद् कस्यचिद् दृष्टगोरूपस्य नागरिकस्याऽरण्यानीं गतस्य गवयदर्शने सति खुरककुद्विषाणादिसादृश्योपलम्भाद् ‘गौरिवाऽयं गवय' इत्युपमानज्ञानमाविर्भवति / न च केनाऽप्यंशेन सर्वज्ञस्य सादृश्यं कस्याऽपि दृश्यते, येनोपमानं तत्सत्तामाविर्भावयति / नाऽप्यर्थापत्तिः सर्वज्ञापत्तिमाविःकरोति / सा ह्येवं जायते / ‘पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्ते पीनत्वस्याऽन्यथानुपपत्त्या 'रात्रौ भुङ्क्ते' इति गम्यते / न च सर्वज्ञसत्तामन्तरेण कोऽप्यर्थो नोपपद्यते, येन सर्वज्ञस्याऽपि सत्ता समापाद्यते / तस्माद् नाऽस्ति सर्वज्ञः, तद्ग्राहक-प्रमाणपञ्चकाभावात्, आकाशकुसुमवत् / उक्तं च - "प्रमाणपञ्चकं यत्र, वस्तुरूपेण(पे न) जायते / वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता // " / इति पराकुर्वन्नाह (न्त आहुः) इदमनवद्यविद्याविशारदाः सदाचारविचारचतुराः सर्वात्मनाऽपि विदग्धमतयः प्रलपन्ति स्म प्राज्ञाः / परे सर्वज्ञापलापिनः पापिनः / यथा - प्रत्यक्षेण तावत् सर्ववेदी न दरीदृश्यते इति तदत्रैवं ते परिपृच्छ्यन्ते - किं भवद्भिः सर्वज्ञोऽपढूयते अत्र देशे सर्वत्र वा ? अस्मिन् काले सर्वकालं वा ? इति विकल्पचतुष्टयं कल्पान्तकालक्षुभिताम्भोनिधिचतुष्कमिव युष्मान् रसातलं प्रापयत् प्रसर्पति / तत्र यद्यस्मिन् देशे अस्मिश्च काले सर्वज्ञोऽध्यक्षेण न वीक्ष्यते इति, तदत्राऽर्थे सिद्धसाध्यता / अहमप्येवं मन्ये, सम्प्रत्यत्र देशेऽसत्त्वात् सर्वज्ञो नाऽवलोक्यते इति / अथ सर्वत्र देशे सर्वकालं