SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जून - 2012 नोपलभ्यते तत् तदसदिति व्याप्तिरपि सर्वदर्शनवतां सम्मता / उदाहृतिरपि एषा निर्दोषतामासादयति / उपनयोऽपि न्याय्यो विदधे / अवसायोऽप्ययमवसितत्वाददोषः / इति प्रतिपादयामासे दोषोद्धारः / / तथा प्रमाभिरनुपलभ्यमानत्वादिति हेतुर्भाव्यते / यथा - स्पर्शनसंवेदसने (वेदने)न नृपहंसरूतपूरिततूल्यादीनामेव मृदुत्वादेरुपलम्भः, न तु मृद्वादिरूपः सर्ववित् / रसनेनाऽपि मधुराम्लादीनामेव फलावस्थितानां वेदनं तेन, न पुनरसौ अम्लादिरूपः / नासया पुनः शाल्योदनादिपरिमलस्योपलम्भो, न पुनरयं तीर्थकृत्परिमलस्वरूपः / रूपसंवेदनेनाऽपि हस्त्यादिवदेष नोपलभ्यते / श्रोत्रं पुनर्भम्भाभेरीशब्दानामुपलम्भनायाऽलं, नाऽप्यसौ तीर्थपतिर्भवदीयः शब्दस्वरूपः, येन श्रोत्रसंवेदनेन संवेद्यः स्यात् / अनुमानमपि नाऽत्र प्रवर्तते / तद्धि हेतुदर्शनात् साध्यस्य प्रतिपत्तये बोभवतीति / यथा नभोवाहिनीं धूमलतां विदित्वा अधस्तात् वह्निसम्भवः स्यात् / नाऽत्र हेतुरुपलभ्यते सर्ववेतृसिद्धये / तस्माद् नाऽनुमानं तद्विषये वरीवृत्यते / ___नाऽपि शाब्दमत्रोत्सहते / वितथमपि सम्भाव्यते विप्रतारयितृपुरुषस्येव / नाऽप्युपमानं समुल्लसति / तद्धि दृश्यमानयोर्द्वयोर्वस्तुनोः सादृश्याद् भवति, समुद्रवत् सरोवरमित्यादिषु स्यात् / नाऽपीह सर्वविदः सम्बन्धे सादृश्यं नयनविषये(यं?) सम्भाव्यते, अविद्यमानत्वात् तस्य / नाऽप्यर्थापत्तिर्मानमत्रोल्लसति / यथा - पीनो देवदत्तो, न पुनः प्साति वासरे, अर्थाद् निशायां प्सातीत्यवधार्यते / तस्मादेषः संवेदनानामभावेऽभावसंवेदनस्यैव तीर्थनाथो विषयतां समासादयति / उक्तं च - "प्रमाणपञ्चकं यत्रे"त्यादि / इति मीमांसाविदां सर्ववेदनिषेद्धव्येऽभिप्रायः / अत्राऽर्थे वदन्ति प्रत्युत्तरमार्हताः प्रतिवादिनः / तथाहि - अनुपलभ्यमानत्वं हि वादिन् ! भवदीयम् आहोस्वित् सर्वेषामपि देहिनाम् ? तत्र यदि भवदीयं संवेदनं यत्र यत्र नोल्लसति तत् तद् नाऽस्तीति / एवं तर्हि
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy