SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ ये त्वां विहाय परदेवकृतांह्रिसेवास्तेभ्यो परो भुवि नरो न जडोऽस्ति कश्चित् ॥७॥ जानन्ति केऽपि किल लक्षणतर्कविद्यां ज्योतिष्क-वैद्यक-कलासु विवेकिनोऽन्ये । मन्त्रादिभावनिपुणाः कतिचिज्जगत्सु सन्तीह नो तव निरूपणभावदक्षाः ॥८॥ आस्तां तवाऽनघ ! गुणौघरसः परेषु मुद्राऽपि नैव तव नाथ ! हि तैरवाप्ता । काम- - क्रुधादिविगुणैरनिशं भृतास्ते शान्तादिभावकलितो भगवंस्त्वमेव ॥९॥ रामारसाऽऽविलतया कलितो हि रागो द्वेषस्तु शत्रुघनघातनहेतिलक्षः । मोहः परेष्वबुधताऽऽचरणेन गम्यो नाऽमी मया त्वयि विभो ! ऽपगुणास्तु दृष्टाः ॥१०॥ त्वद्वीक्षणाज्जिनवरेन्द्र ! शरीरभाजां मोदातिशेषकलितं हृदयं क्षणात् स्यात् । धाराधराऽमलजलाद् भवति प्ररोहः पृथ्व्यां यथा सफलभूरुहजातियोग्यः ॥११॥ कण्ठीरवा-ऽनल-करीन्द्र-गदा- ऽहि-नीरचौरा-ऽरि-सङ्गर-महोदर-बन्धनाद्याः । भीता व्रजन्ति च भया (याद् ? ) रवितस्तमांसि (स्तमिश्र?)वन्नाथ ! नामजपतस्तव नास्ति शङ्का ॥१२॥ येषां जिनेन्द्र ! तव नाम हृदि प्रशस्तं नित्यं स्थितं भवति देव ! सुखानि तेषाम् । स्युः शाश्वतानि सुरराज-नरेन्द्रसम्पद्युक्तानि मङ्गलरमावरदानि मन्ये ॥१३॥ नागाधिपोऽनलदवानलविह्वलास्यः पीयूषपूरतुलितं वचनं त्वदीयम् । ३
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy